वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 80, कुल 145 में से
संदर्भ में पढ़ें(८०) वेदान्तसार ।
त्मा लक्ष्य और दोनों पद लक्षण इस प्रकारके सम्बन्धको
लक्ष्यलक्षणभाव सम्बन्ध कहते हैं ग्रन्थान्तरमें कहा भी
है-“सामानाधिकरण्य, विशेष्यविशेषणभाव, और लक्ष्यल-
क्षण भाव, यह तीन प्रकारका सम्बन्ध है” ॥ ७५ ॥
सामानाधिकरण्यसम्बन्धस्तावत् यथा सोऽयं देव-
दत्त इति वाक्ये तत्कालविशिष्टदेवदत्तवाचकश-
ब्दस्य एतत्कालविशिष्टवाचकायंशब्दस्य च एक-
स्मिन्देवदत्तपिण्डे तात्पर्यसम्बन्धः । तथा च
“तत्त्वमसि” वाक्येऽपि परोक्षत्वादिविशिष्टचै-
तन्यवाचकतच्छब्दस्या-परोक्षत्वादि विशिष्ट-चै-
तन्यवाचक-त्वंपदस्य चैकस्मिन् चैतन्ये तात्प-
र्य्यसम्बन्धः ॥ ७६ ॥
(सं०टी०) पदयोः सामानाधिकरण्यं उदाहरणनिष्ठं कृ-
त्वा प्रदर्शयति । सामानाधिकरण्यमिति । भिन्नप्रवृत्तिनि-
मित्तयोः शब्दयोरेकस्मिन्नर्थे प्रवृत्तिः सामानाधिरण्यं तत्र
सोयं देवदत्त इति वाक्ये स इति तत्कालतद्देशवैशिष्ट्यं स श-
ब्दस्य प्रवृत्तिनिमितं अयमिति एतत्कालैतद्देशवैशिष्ट्यमयंश-
ब्दस्य प्रवृत्तिनिमित्तं यथा च भिन्नप्रवृत्तिनिमित्तयोः सोयं
शब्दयोरेकस्मिन् देवदत्तपिंडे तात्पर्य संबंधःसामानाधिकरण्य-
मित्यर्थः।उक्तमर्थं दाष्टांतिके योजयति।तथाचेति। तथा तत्त्व-
मसीति वाक्येपि परोक्षत्वसर्वज्ञत्वादिवैशिष्ट्यं तत्पदप्रवृत्तिनि-
मित्तं अपरोक्षत्वकिंचिज्ज्ञत्वादिवैशिष्ट्यं त्वंपदप्रवृत्तिनिमित्तं