वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 50, कुल 145 में से
संदर्भ में पढ़ें( ५० ) वेदान्तसार ।
दर्शयति । अस्यैषेति । अस्य सूत्रात्मनो हिरण्यगर्भाख्यस्य
विज्ञानमयादिकोशत्रयं शरीरं अस्य स्थूलप्रपंचापेक्षया सूक्ष्म-
त्वादित्यर्थः। अस्यैव विज्ञानमयादिकोशत्रयस्य स्वप्नत्वे युक्ति-
माह । जाग्रदिति । विराट्स्वरूपेणानुभूतस्थूलप्रपंचविषय-
वासनामयत्वात्स्वप्नत्वमस्येत्यर्थः । यतः स्वप्नत्वं सूक्ष्मत्वं
च । अत एव स्थूलप्रपंचलयस्थानमित्युच्यत इत्यर्थः । विज्ञा-
नमयादिसमष्ट्युपाध्यवच्छिन्नचैतन्यस्य हिरण्यगर्भत्वं प्रति-
पाद्येदानीं तद्व्यष्ट्युपलक्षितचैतन्यस्य तैजसत्वं निरूपयति ।
एतदिति । अत्र हेतुमाह तेजोमयेति ॥ ४९ ॥
( भा०टी० ) हिरण्यगर्भको उपाधिस्वरूप इसी स्थूलश-
रीरके समष्टि स्थूल प्रपञ्चसे सूक्ष्म होता है । इसी कारण उस
को सूक्ष्मशरीर और कोशत्रय कहते हैं । तथा जाग्रत्अव-
स्थाका वासनात्मक हेतु, स्वप्न, और स्थूल, प्रपञ्चका लय-
स्थान कहा जाताहै । इसी स्थूलशरीरके व्यष्टिरूप उपाधिसे
उपहित चैतन्यको तैजस कहते हैं । इसी कारण तेजोमय अ-
न्तःकरण उसका उपाधि है ॥ ४९ ॥
अस्यापीयं व्यष्टिः स्थूलशरीरापेक्षया सूक्ष्मत्वात्
सूक्ष्मशरीरं विज्ञानमयादिकोशत्रयं जाग्रद्वासना-
मयत्वात्स्वप्नः । अत एव स्थूलशरीरलयस्थान-
मिति चोच्यते । एतौ सूत्रात्मतैजसौ तदानीं सू-
क्ष्माभिर्मनोवृत्तिभिः सूक्ष्मविषयाननुभवतः ।
“प्रविविक्तभुक्तैजसः” इत्यादिश्रुतेः ॥ ५० ॥