वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 22, कुल 145 में से
संदर्भ में पढ़ें( २२ ) वेदान्तसार ।
कहा है-दीप्तिमान आत्माकी शक्ति निज सत्त्वगुणआदि द्वारा
वेष्टित होकर निगूढभावमें रहती है ॥ २५ ॥
इदमज्ञानंसमष्टिव्यष्ट्यभिप्रायेणैकमनेकमितिच-
व्यवह्रियते । तथाहि-यथावृक्षाणांसमष्ट्यभि-
प्रायेणवनमित्येकत्वव्यपदेशः ॥ यथा वा जला
नां समष्ट्यभिप्रायेण जलाशय इति तथा नाना
त्वेन प्रतिभासमानजीवगताज्ञानानां समष्ट्यभि-
प्रायेण तदेकत्वव्यपदेशः । “अजामेकाम्”
इत्यादिश्रुतेः । इयं समष्टिरुत्कृष्टोपाधितया विशु-
द्धसत्वप्रधाना । एतदुपहितं चैतन्यंसर्वज्ञत्वसर्वै-
श्वरत्वसर्वनियंतृत्त्वादिगुणकं सदसदव्यक्तमन्तर्या-
मि जगत्कारणमीश्वर इति च व्यपदिश्यते ।
सकलाज्ञानावभासकत्वादस्य सर्वज्ञत्वम् । “यः
सर्वः स सर्ववित्” इति श्रुतेः ॥ २६ ॥
(सं०टी०)अज्ञानं विभजते । इदमिति । वस्तुतोऽज्ञा-
नस्यैकत्वेपि समष्ट्यभिप्रायेणैकमिति व्यवह्रियते । व्यष्ट्यभि-
प्रायेणानेकमित्यर्थः । तदेव प्रपंचयितुं प्रतिजानीते । तथाहीति।
यथा बहूनां वृक्षाणां समुदायविवक्षया वनमित्येकत्वव्यपदेशः
यथा बहूनां नद्यादिजलानां समुदायविवक्षया जलाशय इत्ये
कत्वव्यपदेशःतथांतःकरणोपाधिभेदेन नानात्वेन प्रतीयमानानां
जीवगताज्ञानानां समुदायविवक्षयाऽज्ञानमित्येकत्वव्यपदेश इ-
त्यर्थः । अस्मिन्नर्थे श्रुतिं प्रमाणयति । अजामिति । “अजा-