वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 134, कुल 145 में से
संदर्भ में पढ़ें( १३४ ) वेदान्तसार ।
एवेत्युपचर्यते अधिष्ठानस्य गमनाभावेऽध्यस्तस्य लोकांतरगम-
नायोगान्नसालोक्यादिमुक्तिसंभवः। नन्वप्राप्तस्य क्रियासाध्यस्य
वस्तुनो विद्यमानानर्थनिवृत्तेश्च पुरुषार्थत्वं दृष्टं अत्र तदभावा
त्कथं पुरुषार्थत्वमिति चेत्, न । तयोरेव पुरुषार्थत्वमिति नि-
यमाभावात्। स्वच्छायायामारोपितरक्षसा विस्मृतकंठगतचा-
मीकरस्य भ्रांतपुरुषस्याप्तवाक्येन तयोर्निवृत्त्या तयोरपि पुरु-
षार्थत्वदृष्टेः । अत्र संग्रहः “आत्माज्ञानमलं निरस्तममलं
प्राप्तं च तत्त्वं परं कंठस्थाभरणादिवद्भ्रमवशाच्छायापिशाची
यथा। आप्तोक्त्याप्तिनिवृत्तिवच्छ्रुतिशिरोवाक्याद्गुरोरुत्थिता-
द्ध्वस्तध्वांतनिरासतः परसुखं प्राप्तं तयोरुच्यते” इति ।
न च मुक्तानां अपि वसिष्ठभीष्मप्रभृतीनामपरोक्षज्ञानिनां पु-
नर्देहांतरश्रवणात्केवलं ज्ञानोत्पत्तिसमय एवाल्पज्ञानिनामस्मा-
कं मुक्तिर्भवतीति कथं विश्वसिमः अतो ज्ञानव्यतिरिक्तमप्यु-
पायांतरं किंचित्कर्तव्यमिति वाच्यं । शास्त्रप्रामाण्यादेव तदुप-
पत्तेः।“ब्रह्मविद्ब्रह्मैव भवति। तरति शोकमात्मवित्”इत्यादिश्रु-
तिभिर्ज्ञानोत्पत्तिसमय एव मुक्तिप्रतिपादनात्। तदुक्तंशेषेण “ती-
र्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन्देहम् । ज्ञानसमकाल-
मुक्तः कैवल्यं याति हतशोकः”इति वसिष्ठादीनां त्वधिकारि-
कपुरुषत्वेन यावदधिकारं प्रारब्धवेगप्रयुक्तशापादिनास्वीकृता-
वांतरदेहपातेपितद्देहभाविभोगस्य निवारयितुमशक्यत्वात्प्रार-
ब्धस्य विना भोगेन क्षयानुपपत्तेः यावदधिकारमवस्थितिरधि-
कारिकाणामिति भगवद्व्यासैर्विशेषितत्वात् । अस्मदादीनां च