सामग्री पर जाएँ
सर्वकोश
वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

पृष्ठ 132, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 132

( १३२ ) वेदान्तसार ।
ल्यमानन्दैकरसमखिलभेदप्रतिभासरहितमखण्डं
ब्रह्मावतिष्ठते । “न तस्य प्राणा उत्क्रामन्त्यत्रैव
समवलीयन्ते विमुक्तश्च विमुच्यते” इत्येवमादि-
श्रुतेः ॥ ॥ १०० ॥ इति वेदान्तसारः समाप्तिमितः ॥
( सं० टी० ) इयता प्रबंधेन प्रतिपादितेऽस्मिन्वेदांतसारा-
ख्ये ग्रन्थे श्रीमत्परमगुरुपरमहंसपरिव्राजकाचार्यसदानन्दयो-
गींद्रेण महापुरुषेणाथवेदांतो नामेत्यारभ्य साधनचतुष्टयसंपन्न-
स्य प्रमातुरधिकारिणः मूलाज्ञाननिवृत्तिपरमानंदप्राप्तिसिद्धये
प्रतीयमानाविद्यकसकलप्रपंचजातस्य ब्रह्मण्यध्यारोपापवादपु-
रःसरं सविस्तरं निष्प्रपंचत्वं प्रतिपाद्य तत्साधनं च श्रवणा-
दिकं सप्रपंचमभिधाय तस्यैवाधिकारिणः तत्त्वमस्यादिवाक्य-
श्रवणानंतरं ब्रह्मात्मैकत्वसाक्षात्कारेण निरस्तसमस्तभेदबुद्धेः
जीवन्मुक्तत्वं प्रदर्शितम् । एतावत्तैव कार्यसिद्धिः किं बहुलेखने-
नेति मनसि निधाय संप्रत्यस्यैव जीवन्मुक्तस्य स्वप्रकाशा-
त्मानंदानुभवैकनिष्ठस्य भेदप्रतीत्यभावेऽपि अविद्यालेशवशा-
त्प्रारब्धकर्मभुंजानोभिक्षाटनादिदेहयात्रामात्रक्रियावशिष्टोब्रह्म
भूत एवावतिष्ठत इत्युपसंहरति।किं बहुना इत्यादिना। प्रारब्ध-
फलं त्रिविधं स्वेच्छाकृतं परेच्छाकृतं अनिच्छाकृतं चेति । तत्र
व्युत्थानदशायामीश्वरप्रेरिततयास्वकीयेच्छयाकृतंस्वेच्छाकृतं
भिक्षाटनादिसमाध्यवस्थायां शिष्यादिभिर्दीयमानमन्नादिकं
परेच्छाकृतम्। समाध्यवस्थायां व्युत्थानदशायां वा आका-
शफलपातवदकस्माज्जायमानं पाषाणपतनकंटकवेधादिकमनि-