वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 126, कुल 145 में से
संदर्भ में पढ़ें( १२६ ) वेदान्तसार ।
दूर हो जाते हैं । और अच्छे बुरे कर्म्मोंके फल नष्ट होजातेहैं
अयन्तु व्युत्थानसमये मांसशोणितमूत्रपुरीषादि-
भाजनेन शरीरेण आन्ध्यमान्द्यापटुत्वादिभाजने-
नेन्द्रियग्रामेण अशनायापिपासाशोकमोहादिभा-
जनेनान्तःकरणेन च तत्तत्पूर्वपूर्ववासनया क्रिय-
माणानि कर्म्माणि भुज्यमानानि ज्ञानाविरुद्धान्या-
रब्धफलानि च पश्यन्नपि बाधितत्वात् परमार्थतो
न पश्यति यथा इदमिन्द्रियजालमिति ज्ञानवान्
तदिन्द्रियजालं पश्यन्नपि परमार्थमिदमिति न
पश्यति। "सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव समना
अमना इव सप्राणोऽप्राण इव"इत्यादिश्रुतेः ।
उक्तञ्च—"सुषुप्तवज्जाग्रति यो न पश्यति द्वयञ्च प-
श्यन्नपि चाद्वयत्वतः ॥ तथापि कुर्वन्नपि निष्क्रि-
यश्च यः स आत्मविन्नान्य इतीह निश्चयः "
इति ॥ ९७ ॥
( सं०टी० ) नन्वेतादृशस्य जीवन्मुक्तस्य देहेंद्रियादिभा-
नमस्ति नवेत्याशंक्य दग्धपटन्यायेनेन्द्रजालनिर्मितसौधसमु-
द्रादिवच्च बाधितानुवृत्त्या मिथ्यात्वेन भानेपि परमार्थतया भा-
नं नेत्याह । अयमित्यादिना न पश्यतीत्यंतेन । अस्मि-
न्नर्थे श्रुतिमाह सचक्षुरिति । उक्तेर्थे आचार्यवचनं प्रमा-
णयति । उक्तंचेति । इह जगति स एवात्मविन्नान्य इति मे नि-