सामग्री पर जाएँ
सर्वकोश
वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

पृष्ठ 124, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 124

( १२४ ) वेदान्तसार ।
प्रथमं लब्धे सति बहिरंगलाभाय नातिप्रयासः कर्तव्यः । यद्य-
पि पतंजलिना भौतिकभूततन्मात्रेन्द्रियाहंकारविषयाः संप्र-
ज्ञातसमाधयो बहुधा प्रपंचिताः तथापि तेषामंतर्धानाकाश-
गमनादिसिद्धिहेतुतया मुक्तिहेतुसमाधिविरोधित्वान्नास्माभिः
तत्रादरः क्रियते । तथा चोक्तं वासिष्ठे । "श्रीराम उवाच ।
जीवन्मुक्तशरीराणां कथमात्मविदांवर । शक्तयो नेह दृश्यंते आ-
काशगमनादिकाः॥ श्रीवसिष्ठउवाच। अनात्मविदमुक्तो पि सि-
द्धिजालानि वांछति । द्रव्यमंत्रक्रियाकालयुक्त्याप्नोत्येव राघव ॥
नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्मनात्मदृक् । आत्मना-
त्मनि संतुष्टो नाविद्यामनुधावति । ये केचन जगद्भावा-
स्तानविद्यामयान्विदुः । कथं तेषु किलात्मज्ञस्त्यक्त्वा वि-
द्यां निमज्जति । द्रव्यमंत्रक्रियाकालयुक्तयः साधुसिद्धिदाः ।
परमात्मपदप्राप्तौ नोपकुर्वंति कांचन ॥" इति। आत्मविषयस्तु सं
प्रज्ञातसमाधिर्वासनाक्षयस्य निरोधसमाधेश्च हेतुः तस्मा-
त्तत्रादरः कृतः । अथ पंचमभूमिकारूढचित्तस्य निरोध-
लक्षणः समाधिर्निरूप्यते । तं च समाधिं सूत्रयति “व्युत्था-
ननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधलक्षणचित्तान्वयो
निरोधः परिणामः” इति । व्युत्थानसंस्काराः समाधिविरोधिनः
ते च निरोधहेतुना योगिप्रयत्नेन प्रतिदिनं प्रतिक्षणं वाऽभिभू-
यंते तद्विरोधिनश्च निरोधसंस्काराः प्रादुर्भवंति तथा सति नि-
रोध एवैकस्मिन् क्षणे चित्तमनुगच्छति सोऽयमीदृशः चित्तस्य
परिणामो भवति यदा तदाऽसंप्रज्ञातसमाधिरुच्यत इत्यर्थः। ए-