वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 116, कुल 145 में से
संदर्भ में पढ़ें( ११६ ) वेदान्तसार ।
ब्दादिभ्यः सकाशात्पाषाणोपरि प्रयुक्तः शरसंघातः तद्वत्प्र-
त्यावर्तनं प्रत्याहारः । नन्विंद्रियाणां स्वस्वविषयेभ्यो निवर्तनं
प्रत्याहार इत्युक्तं तन्न संभवति शब्दादिविषयाणां सुखसाध-
नत्वेन वैषयिकसुखव्यतिरिक्तनिरतिशयानंदसद्भावे प्रमाणा-
भावाद्धैरण्यगर्भाद्यमृतभोगस्येश्वरेणापि त्यक्तुमशक्यत्वादिति
चेत् । न । मूढैः कर्मजडैर्विषयलंपटैः त्यक्तुमशक्यत्वेपि शुद्धां-
तःकरणेन संसाराविद्यकत्वदर्शिना विषयदोषदर्शनेन तुच्छी-
कृतशब्दादिविषयप्रपंचेन पुरुषोत्तमेन पुरीषवत् त्यक्तुं-
शक्यत्वात् । अन्यथा संन्यास एव लुप्येत "तस्मात्
न्यासमेषां तपसामतिरिक्तमाहुः । एतमेव लोकमभी-
प्संतः प्रव्राजिनः प्रव्रजंति । एतत्सर्वं भूः स्वाहेत्यप्सु परि-
त्यज्यात्मानमनिच्छेत्” । "न कर्मणा न प्रजया धनेन त्यागेनै-
केनामृतत्वमानशुः” । ब्रह्मचर्यादेव प्रव्रजेत यदहरेव विरजेत्तद-
हरेव प्रव्रजेत् वनाद्गृहाद्वा । सर्वधर्मान्परित्यज्य मामेकं श-
रणं व्रज"इति।संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया" प्रव्रजंत्य-
कृतोद्वाहाः परंवैराग्यमाश्रिताः प्रत्यग्विविदिषासिद्धयै वेदानुव-
चनादयः। ब्रह्मावाप्त्यैवतत्त्यागमभीप्संतीतिश्रुतेर्बलात्” इत्यादि
श्रुतिस्मृतिभिः तथा "आनंदो ब्रह्मेति व्यजानात् एतस्यैवानंद-
स्यान्यानि भूतानि मात्रामुपजीवंतीति एषोस्य परमानंदःआत्मै
वानंद यदेष आकाश आनंदो न स्यात् आनंदाद्धयेवखलु”
इत्यादिश्रुतिभिश्च नित्यात्मसुखस्य प्रतिपादितवाच्छब्दा-
दिवैषयिकसुखव्यतिरिक्तनित्यनिरतिशयानंदसद्भावे प्रमाणा-