सामग्री पर जाएँ
सर्वकोश
वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)

वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)

Vedantasara of Sadananda with Hindi Commentary

सदानन्द योगीन्द्र द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished314 पृष्ठ

पृष्ठ 269, कुल 314 में से

संदर्भ में पढ़ें
पृष्ठ 269

अनुभववाक्यार्थ-निरूपण २५५
एवं च सति “मनसैवानुद्रष्टव्यं” “यन्मनसा न मनुत” इत्यनयोः
श्रुत्योरविरोधो वृत्तिव्याप्यत्वाङ्गीकारेण फलव्याप्यत्वप्रतिषेधप्रतिपादनात्।
तदुक्तम्-
“फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निवारितम्।
ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता” इति॥
“स्वयम्प्रकाशमानत्वान्नाभास उपयुज्यते” इति च
जडपदार्थाकाराकारितचित्तवृत्तेर्विशेषोऽस्ति। तथाहि। अयं घट इति
घटाकाराकारितचित्तवृत्तिरज्ञातं घटं विषयीकृत्य तद्गताज्ञाननिरसनपुरःसरं
स्वगतचिदाभासेन जडं घटमपि भासयति। तदुक्तम्-
“बुद्धितत्स्थचिदाभासौ द्वावेतौ व्याप्नुतो घटम्।
तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत्” इति॥
यथा दीपप्रभामण्डलमन्धकारगतं घटपटादिकं विषयीकृत्य
तद्ग तान्धकारनिरसनपुरःसरं स्वप्रभया तदपि भासयतीति॥२९॥
पदच्छेद-एवम् च सति “मनसा एव अनुद्रष्टव्यम्”, “यत् मनसा न
मनुते” इति अनयोः श्रुत्योः अविरोधः वृत्तिव्याप्यत्व-अङ्गीकारेण फलव्याप्यत्व
प्रतिषेधप्रतिपादनात्। तद् उक्तम्-
“फलव्याप्यत्वम् एव अस्य शास्त्रकृद्भिः निवारितम्।
ब्रह्मणि अज्ञाननाशाय वृत्तिव्याप्तिः अपेक्षिता”॥
“स्वयं प्रकाशमानत्वात् न आभासः उपयुज्यते इति च॥”
जडपदार्थ-आकार-आकारित- चित्तवृत्तेः विशेषः अस्ति। तथाहि, अयम्
घटः इति घटाकार-आकारितचित्तवृत्तिः अज्ञातम् घटम् विषयीकृत्य,
तद्गत-अज्ञान-निरसनपुरःसरम् स्वगतचिद् आभासेन जडम् घटम् अपि
भासयति। तद् उक्तम्-
“बुद्धितत्स्थ-चिद् आभासौ द्वौ एतौ व्याप्नुतः घटम्।
तत्र अज्ञानम् धिया नश्येत् आभासेन घटः स्फुरेत्” इति॥
यथा दीपप्रभा-मण्डलम् अन्धकारगतम् घटपट-आदिकम् विषयीकृत्य
तद्गत-अन्धकार-निरसन-पुरःसरम् स्वप्रभया तद् अपि भासयति, इति॥२९॥
अनुवाद-और ऐसा होने पर ‘(वह) मन से ही द्रष्टव्य हैं’, ‘जो मन
द्वारा जाना नहीं जा सकता है, इसप्रकार की दोनों श्रुतियों में वृत्ति के