वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 84, कुल 237 में से
संदर्भ में पढ़ेंयहाँ दोनों पृष्ठों का पंक्ति-दर-पंक्ति देवनागरी लिप्यन्तरण प्रस्तुत है:
[पृष्ठ १४४]
१४४ वेदस्वरूप-विमर्शः
अलौकिकप्रत्यक्षस्य च लौकिकप्रत्यक्षाद् बलीयस्त्वान् तस्य विशुद्धत्वेन
वेदमूलमेवाभ्रान्तत्वम् । अत एव अतीन्द्रियपदप्रेप्सोर्वेदस्यैव शरणा-
पत्तिरुचितेति ध्वन्यते" इति । तदपि निस्तत्त्वम् ; श्रु तितर्कविरोधात् ।
तथा हि-बौद्धाहतैः न तावद्वेदस्य सर्वज्ञानप्रसवहेतुत्वमुपेयते, किन्तु
तेषां तारकज्ञानमन्यादृशमेव, यन्मूलकास्तेषामा गमाः । कस्य योगः
सम्यक् योगः, कस्य तपः सम्यक् तपः, कस्य च ज्ञानं तारकं ज्ञानमिति
निर्णेतुं क उपायः ? किञ्च -वैदिकैस्तु ऋषीणां नाम्नायविधीतृत्व-
मुपेयते, किन्तु पूर्वोक्तरीत्या आम्नायद्रष्टृत्वमेव उरीक्रियते । तदपि-
संप्रदायान्तरसंवादेन निश्चीयते । अन्यथा दृष्ट्वा निर्माय वा मन्त्रास्तै-
रुच्यन्ते, इत्यन्निर्णये सशोतिरेव स्यात् । तथैव प्रशस्तपादाद्यभिमतम्
अतीतादिसर्वविषयकमपि ज्ञानं भूतार्थकं सववस्तुभानं प्रातिभमपि
नानापेक्षिकम्, तत्रापि श्रत्यादिसंवादापेक्षाया अनिवार्यत्वात् ।
अन्यथा प्रातिभज्ञानशालिषु तेषु ऋषिषु मतभेदानापत्तेः ।
'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥'
इयरीत्या ज्ञानमात्रेषु शब्दानुवेधस्य वैयाकरणसम्मतत्वेऽपि नैयायिक-
वैशेषिकैरनभ्युपगमात् न तद्रीत्या तस्याऽऽगसहेतुकत्वमपि चोद्यम् ।
अत एव प्रत्यक्षसूत्रे न्यायमञ्जरीकारादिभिः तत्खण्डनमखण्डनादि
बहुधा प्रपञ्चितम् । कथमित्त केषाञ्चिद्धीत्या तदभ्युपगमेऽपि
न शब्दानुवेधमात्रेण तस्य ज्ञानस्याऽऽगमिकत्वं वक्तुं शक्यम्, जन्य-
वस्तुषु पौर्वापर्यभवत्तरा तद्विनाशभूतहेतुमद्भावासिद्धेः । अत एव प्रत्यक्षादि-
ज्ञानस्य इन्द्रियादिमूलकत्वं प्रसिद्धम्, न शब्दमूलकत्वम्, नतरां वेद-
मूलकत्वम् ; तथात्वे बौद्धादिभिरपि वेदप्रामाण्यस्याभ्युपेयत्वापातात् ।
शब्दमात्रस्य वेदत्वकल्पनं निष्प्रमाणकम्, उपहासास्पदञ्च । प्रत्यक्षस्य
वेदमूलकत्वे कथं तत्र बुद्धिकल्पनाऽपि ? तेन कुतोऽलौकिकप्रत्यक्षस्य
लौकिकप्रत्यक्षाद् बलीयस्त्वमपि ?
यदप्युक्तम्—"अतीन्द्रियपदप्रेप्सोर्वेदस्यैव शरणापत्तिरुचिते'ति ।
तदपि न चोदक्षुमम् ; परावाग्रूपस्य वेदत्वे तस्यापि अतीन्द्रियत्वा-
[पृष्ठ १४५]
वेदस्वरूप-विमर्शः १४५
विशेषात् । तदुपलब्धौ साधनान्तरस्य वक्तव्यत्वात् । प्रसिद्धवेद-तदुप-
दिष्टोपायानां तत्साधनत्वे स्वीकार्यमेव तेषां वेदत्वम् । कथं वा बौद्धादि-
रीत्या प्रसिद्धवेदानामतीन्द्रियज्ञानसाधकत्वं सम्भवति ?
यदप्युक्तम्—"परब्रह्मणः सकाशात् तदनुकारस्यैव शब्दब्रह्माख्यस्य
वेदस्य यथा वस्तुतः कोऽपि भेदो नास्ति, तथा वेदस्वरूपात् विल्म-
भूतस्य वेदस्यापि तात्त्विको भेदो न संलक्ष्यते । परन्तु उभयत्र आभास-
मानस्य वेदस्य निवृत्तिमद्दिश्य विल्मसमाश्रयेण वेदस्वरूपपरिग्रहः
कर्तव्यः । ततश्च परब्रह्मावाप्तिरिति क्रमव्यवस्था" इति । तदपि नातीव
हृद्यम्; सर्वस्यैव प्रपञ्चस्य वस्तुतो ब्रह्मभिन्नत्वाभावेन शब्दब्रह्मणो
वैशिष्ट्यानुपपत्तितत् शब्दमात्रस्यैव शब्दब्रह्माभिन्नत्वे विल्मभूतवेदेषु
वैशिष्ट्यासिद्धेः ।
यदप्युक्तम्—"ब्राह्मणानां ब्राह्मण्यमपि वेदनिबन्धनमेव । यः शब्द-
ब्रह्मणि निष्णातः, स एव ब्रह्माधिगन्तुमर्हति, नेतरः । स एवान्वर्थनामा
ब्राह्मणः । शब्दब्रह्मावगतिरेव श्रुति-विद्यादिपदवाच्या । परन्तु तपसो-
ऽनुष्ठानमन्तरा न कदाचिदेषा विद्या आविर्भवति । तपोऽनुष्ठानमपि
देहविशेषादेव भवतीति योनिः जातिर्वाऽपि ब्राह्मण्यवाप्तौ बीजमभि-
धीयते । तपश्च क्रियाविशेषवाचकम् । नहि सर्वाः क्रिया निर्विशेषैः
सर्वैरेव मन्त्रैर्निष्पादयितुं शक्याः, श्रोत्रादिना दर्शनादिक्रियावत्
देहविशेषसाध्यः क्रियाविशेषो येन केनापि देहेन न सम्भवतीति
स्फुटम् । अत एव ब्राह्मणस्वरूपप्रदर्शनाथं महाभाष्यकारेणोक्तम्—
'विद्या तपश्च योनिश्च त्रयं ब्राह्मण्यकारणम् ।
विद्यातपभ्यां यो हीनो जातिब्राह्मण एव सः ॥'
( म० भा० २ । २ । ६ ) इति ।
तदपि निर्विचार-रमणीयम्; ब्राह्मण्यस्य वेदनिबन्धनत्वे शब्दब्रह्मणि
निष्णातानां क्षत्रियादीनामपि ब्राह्मण्यपातान् । न च तेषां वेदाध्ययना-
नधिकारः, द्विजातीनां वेदेऽधिकारस्य श्रुतिस्मृतिसिद्धत्वात् । न च
विल्मभूतवेदाध्ययनाधिकारसत्त्वेऽपि तपःसाध्यत्वेन शब्दब्रह्मरूपवेदा-
वे० वि० १०