वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 81, कुल 237 में से
संदर्भ में पढ़ेंपृष्ठ ११८
११८ वेदस्वरूप-विमर्शः
किञ्च--शब्दब्रह्मरूपायाः परस्याः वाचः साक्षात्कारेऽपि निर्विशेष-
ब्रह्मज्ञानं कथं सम्भवति ? ब्रह्मज्ञानेन ब्रह्मकार्यज्ञानसम्भवेऽपि कार्य-
ज्ञानेन ब्रह्मज्ञानासम्भवात् । शब्दब्रह्म-परब्रह्मणोरैक्येऽपि तज्ज्ञानमेव
परब्रह्मज्ञानमिति कुतः शब्दब्रह्मज्ञानस्य परब्रह्मज्ञानहेतुत्वम् ?
'शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ।'
इत्यादिवचनं प्रसिद्धवेदाभिप्रायेणैव तु सङ्गच्छते । उपनिषदादि-
वेदज्ञानेन ब्रह्मज्ञानप्रतिभारूपा शुद्धप्रज्ञा या तत्त्वप्रकाशिका भवति, सा
तु सविषया । परावाक् तु पुनरक्रमा अविषया च । योगशास्त्रोपदिष्ट-
तारकज्ञानमपि वस्तुतत्त्वावद्योतकत्वात् सविषयमेव । प्रणवस्तु वाचक-
त्वेन परमेश्वरस्य लक्षकत्वेन च शुद्धब्रह्मणो बोधको भवति ।
यद्वा--विष्णुबुद्ध्या उपास्यमानः शालग्रामो यथा विष्णुप्राप्तिहेतुः,
तथैव ब्रह्मबुद्ध्या उपास्यमानः प्रणवः परब्रह्मप्राप्तिहेतुर्भवति । वेद-
तात्पर्यविषयीभूतं ब्रह्म वेदाश्रयणमन्तरा नाधिगम्यते इत्येतस्मिन्नेवार्थे
'नावेदविन्मनुते' इत्यादीनि श्रौतानि वचनानि सङ्गच्छन्ते ।
वस्तुतस्तु--स्वप्रकाशं ब्रह्म, न तत्र प्रकाशापेक्षा । तत एव अवेद्यत्वे
सति अपरोक्षं यत्तदेव ब्रह्म, 'यत्साक्षादपरोक्षाद् ब्रह्म' इति श्रुतेः । अनाद्य-
निर्वचनीयाऽविद्यापनोदाय महावाक्यजन्यान्तःकरणवृत्तिरेव अपे-
क्षिता भवति । सा च प्रणवोपासनेन वाग्देव्याः प्रसादेन वा जायते ।
शब्देन शब्दार्थज्ञानमुत्पद्यते इति नीत्याऽपि प्रणवेन महावाक्येन ब्रह्मा-
कारा परोक्षात्मिका वृत्तिरुदेति । तया आवरणभेदेन स्वप्रकाशं ब्रह्म
स्वतोऽपरोक्षं भवति ।
'फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निराकृतम् ।
ब्रह्मण्याज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता ।।'
इत्याद्युक्तेः । सा च वृत्तिः प्रणवादपि भिन्ना शब्दब्रह्मणोऽभिन्नाया
वाग्देव्याः प्रसादभूतत्वात् ततोऽपि भिन्नेव । शब्दार्थात्मकप्रपञ्चोत्पाद-
नानुगुणं-महाशक्त्यवच्छिन्नं ब्रह्मैव शब्दब्रह्मेत्याख्यायते । परं ब्रह्म तु
पृष्ठ ११९
वेदस्वरूप-विमर्शः ११९
सर्वथाऽनवच्छिन्नमेव । स्वावस्थान्तरभूतवेदादिशब्दैरेव शब्दब्रह्म पर-
ब्रह्मप्रकाशकं भवति ।
यदप्युक्तम्--"गुहाहितं प्राकृतजनैर्दुर्निरीक्ष्यं धर्मस्य तत्त्वं विवृत-
स्वरूपाया वाग्देव्याः प्रसादात् अचिरेणैव चेतसि समुल्लसति, येन-
कर्तव्याकर्तव्यनिश्चयः शास्त्राणि उपदेष्टुर्वचनञ्च अनपेक्ष्यैव सुकरो
भवति । संशय-विपर्ययादिगन्धशून्या सा वाक्प्रसादजा वागात्मिका
प्रज्ञा लौकिकज्ञानेन अबाध्यमाना ऋतम्भरेत्यन्वर्थसंज्ञां दधातीति
प्रसिद्धा योगिलोके" इति । तदपि न क्षोदक्षमम्; प्रमाणभूतैरपौरुषेयैः
वैदिकैः शब्दैरेव वाग्देव्याः प्रसादेन धर्मब्रह्मणोरवगमप्रसिद्धेः ।
सरस्वतीरूपायाः परदेवताया वाग्देवतायाः प्रसादेनैव सोपकरणैर्वेदैः
विपर्ययादिशून्यं धर्मब्रह्मज्ञानं जायते, न तु स्वातन्त्र्येण । यथा
नहि चक्षुरन्तरा रूपज्ञानं जायते, न वा घ्राणमन्तरा गन्धज्ञानं
सम्भवति, तथैव वैदिकशब्दमन्तरा न धर्मब्रह्मज्ञानं सम्भवति,
'तं त्वौपनिषदं पुरुषं पृच्छामि', 'नावेदविन्मनुते तं बृहन्तम्'
इत्यादिश्रुतिभ्यः । अन्यथा का वाग्देवी, किञ्च तत्स्वरूपविवरणम्,
कथञ्च तेन धर्मतत्त्वज्ञानम् इति प्रश्नाः असमाहिता एव स्थास्यन्ति ।
यदि च तत्समाधानार्थं वैदिक-तान्त्रिकवचनाश्रयणम्, तदा तु तैरेवेदं
[L1