वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 79, कुल 237 में से
संदर्भ में पढ़ेंप्रतिपादकभावेन स्थितत्वाद्भेदानाम् । सर्वैर्वेदैः खलु ब्रह्माधिगम्यते—
'तं त्वौपनिषदं पुरुषं पृच्छामी'ति, 'तमेतमात्मानं ब्राह्मणा विविदिषन्ती'ति
श्रुतेश्च । यस्मिन् विश्वेदेवा अधि निषेदुः, निषीदन्ति तिष्ठन्ति, आश्रित्य
तिष्ठन्ति । यद्वा-उक्तलक्षणे ब्रह्मणि ऋगाद्या वेदाः पर्यवसिताः । यस्तद्वेद-
प्रतिपाद्यं वस्तु न वेद, स किम् ऋगादिशब्दजालेन करिष्यति ? वेदेन
साधनेन वेद्यमविदित्वा किं साधयतीत्यर्थः । प्रयोजनाभावात् सर्वस्य
वेदस्य वैफल्यमिति भावः । य इत् य एव तत्तत्त्वं विदुर्जानन्ति त इमे
समासते त एवेमे ज्ञातारः समासते । अपुनरावृत्त्या ब्रह्मपेऽवस्थानं
समासनम् ।
अथवा—ऋगाद्यात्मकस्य आदित्यमण्डलस्य सम्बन्धिन्यक्षरे
हिरण्मये पुरुषे सर्वे देवा निषीदन्ति, यस्तन्न वेद किमृचा करिष्यति ?
[L1