वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 74, कुल 237 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the two pages as printed:
१२४ वेदस्वरूप-विमर्शः
अविस्तरमसन्दिग्धं - मविलम्बित - मध्यथम् ।
उरस्थं कण्ठगं वाक्यं वर्तते मध्यमस्वरम् ॥ ३१ ॥
संस्कारक्रमसम्पन्ना मद्भूतामविलम्बिताम् ।
उच्चारयति कल्याणीं वाचं हृदयहर्षिणीम् ॥ ३२ ॥
अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया ।
कस्य नाराध्यते चेत उद्यतासेररेरपि ॥ ३३ ॥
लेखकस्य वाचोभङ्ग्या ध्वन्यते यद् वैखरीवागात्मका वेदा न
वस्तुतो वेदाः, किन्तु परा-पश्यन्त्याद्यात्मका एव मुख्या वेदाः। एवं परा-
पश्यन्त्यादिस्वरूपविषयेऽपि आधुनिकवैदिकविद्वन्मानिनामन्यः
पन्थाः । सर्वमेतदत्र विमर्शणीयं भवति । तदत्र पूर्वं पर-पश्यन्त्यादिरूपं
नव्यमतानुगृहीतं समीक्ष्य कथं परा-पश्यन्त्याद्यात्मका एव न मुख्या
वेदा इति विवेचयिष्यते