वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 37, कुल 237 में से
संदर्भ में पढ़ेंभावादेव नाध्यापकादीनां तत्कर्तृत्वम् । अन्यथा रघुवंशादिशलोकोच्चार-
यितॄणामन्येषामपि तत्कर्तृत्वपातात् । तपोयोगात् परमेश्वरानुग्रहविशेषात्
केषाञ्चिदध्ययनाध्यापनादिना मन्त्रतदर्थसाक्षात्कारेण तद्द्रष्टृत्वकर्तृत्वादि-
व्यवहारो भवति । सम्प्रदायप्रवर्तकत्वेन च क्वचित् कर्तृत्वव्ययहारः ।
निर्माणस्वातन्त्र्याभावेन च वस्तुतो न निर्मातृत्वम् । विद्यमानानामेव च
साक्षात्काराद् द्रष्टृत्वमेव पर्यवस्यति ।
अत एवोक्तम् - 'यत्काम ऋषिर्यस्यां देवतायामार्थपत्यमिच्छन् स्तुतिं
प्रयुङ्क्ते तद्देवतः स मन्त्रो भवति' इति । यद्यपि शब्दसामर्थ्यवशेन।ऽपि
दैवतनिर्णयः कर्तुं शक्यते; तथापि क्वचिल्लिङ्गबलात् परिकल्पितामपि
श्रुतिमितिक्रम्य निरपेक्षेतरवरूपश्रुतिबलात् विनियोगान्तरं कल्प्यते । यथा-
'कदा