वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
DevanagariHindipublished237 पृष्ठ
पृष्ठ 32, कुल 237 में से
संदर्भ में पढ़ेंपृष्ठ 32
३८ : वेदस्वरूप-विमर्शः
भविष्यदादिविषयत्वम्" इति । तन्न; स्वार्थानतिलङ्घनेन दूरसूक्ष्मादि-
दृष्टावेव तात्पर्यावसानात् ।
ननु 'तत्र रसादिग्राहिणामिन्द्रियाणां सत्त्वान्न रसादिषु चक्षुरादि-
व्यापारः कल्प्यते ?' तर्हि धर्मेऽपि तत्कल्पनस्यायुक्तत्वात् । तत्रापि शब्द-
प्रमाणसद्भावः ।
'येऽपि चातिशया दृष्टाः प्रज्ञामेधाबलैर्नृणाम् ।
स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ॥' इति ।
यदि च परोक्षस्वभावो धर्मोऽपि योगीन्द्रियगम्यः स्यात्, तदा
रूपादावपि श्रोत्रवृत्तिता स्यात् । तदुक्तम् -
'एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते ।
नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते ॥' इति ।
यदुक्तम्-'धर्मस्य रसादिवच्छब्दाविषयतया तनु परिकल्प्यते' इति ।
[L