वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 30, कुल 237 में से
संदर्भ में पढ़ें[पृष्ठ ३४]
३४ वेदस्वरूप-विमर्शः
हिरण्यगर्भशब्दितं भवति । लिङ्गशरीरे प्राणस्य बुद्धेश्च प्राधान्यं
भवति । प्राणप्राधान्येन हिरण्यगर्भः प्राणशब्दाव्यपदेश्यः । सर्वविधार-
कत्वाच्च सूत्रशब्दव्यपदेश्यो भवति । बुद्धिप्राधान्येन महत्तत्त्व शब्द-
व्यपदेश्यो भवति । बुद्धिप्राभास्येनैव हिरण्यापरपर्यायद्योतिर्मयत्वात्
हिरण्यगर्भशब्दभागपि भवति । स एव च प्रजापतिः । एवं तस्या-
ऽपञ्चीकृतपञ्चमहाभूतकार्यत्वेऽपि तद्विशिष्टस्य अन्तर्यामिणो हिरण्यगर्भस्य
माहात्म्यातिशयो न हीयते । तस्यैव च मुख्यम् एकदेवत्वं सूर्येन्द्रत्वादि-
कञ्चोपपद्यते । तस्यैव च वैश्वानरादिरूपेण सर्वधारकत्वं सर्वरूपत्वञ्च ।
तस्यैव समष्टिप्रजाप्राणधारकत्वात् 'प्राणः प्रजानामुदयत्येष सूर्यः'
इत्याद्युक्तयः सङ्गच्छन्ते ।
तन्निर्वर्त्यत्वात्
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें