सामग्री पर जाएँ
सर्वकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 234, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 234

४४२ वेदस्वरूप-विमर्श
'वा यः' इति मुद्रितम् । तेन समाजिनां मूलवेदत्वेनाभिमता ऋक्-
संहिता यास्कदृष्ट्या शाकल्यकृता पौरुषेयी एव सिद्ध्यति ।
श्रीविश्वेश्वरानन्दश्च शाकलसंहितासूच्यां 'वायः' इत्येकं पदं न
प्रकाशितवान् । किंतु सूच्याः ३७१ पृष्ठे 'वा', ३७२ पृष्ठे च 'यः' इति
प्रकाशितवान् । तत एव प्रकाशितायाम् अथर्वसंहितायां 'वा' 'यः'
इति पृथक् पृथगेव पाठः । तेनोभयोः संहितयोः पौरुषेयत्वमापतति ।
अर्थस्तु 'वायः, इति पाठं मत्वैव कृतः । तेषां स्वाभिमतरीत्या तु
सर्वेऽपि पाठा अपौरुषेया एव । पाठभेदेन पौरुषेयत्वोक्तिस्तु निन्दार्थ-
वाद एव ।
'शाखाभेदाश्च ये केचित् याश्च शाखासु गीतयः ।
स्वरवर्णसमुचाराः सर्वास्तान् विद्धि मत्कृतान् ॥'
महा० शान्ति० ३४२।१००-१००-१०१ (९७)
इति भगवत्कृतत्वादपौरुषेयत्वेन शाखाभेदीयगीतिस्वरवर्णसमु-
च्चाराणाम् अपौरुषेयत्वमेवोक्तम् ।
आनुपूर्व्या अनित्यत्वञ्चेत् ? तद् यथा ब्राह्मणभागस्य तथैव
मन्त्रभागस्यापि, यथेतरासंहितानां तथैव समाजिसम्मत-शाकली-
शौनकी-कौथुमी-माध्यन्दिनीति संहिताचतुष्टयस्यापि । ४।३।१०१ सूत्रे
महाभाष्योद्धृतानि काठक-कालापक-मौदक-पैप्पलादशाखानामानि अन्या-
सामुपलक्षणार्थमेव । अन्यथा समुद्धृतनाम्नीनां शाखानामेव आनु-
पूर्व्या अनित्यत्वे तद्भिन्नानां मैत्रायणी-काण्व-तैत्तिरीयक-कापिष्ठलक-
जैमिनि-राणायनीय-बाष्कलादि संहितानाम् आनुपूर्व्या नित्यत्वापत्तिः
स्यात् । न च सामाजिकानामिष्टं तत् ।
“महाभाष्यकारेण—'छन्दोऽर्थं तर्हीदं वक्तव्यम् । नहि छन्दांसि
क्रियन्ते, नित्यानि छन्दांसि' ( छन्द