वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 222, कुल 237 में से
संदर्भ में पढ़ेंसन्तोऽमहत्त्ववच्छब्दे महत्त्वं सम्पादयन्तीति वक्तुं न शक्यते । परमते
शब्दस्य गुणवत्त्वेन निरवयवत्वात् । ततोऽगत्या कणशष्कुलीमण्डलस्य
सर्वां सरणिं व्याप्नुवद्भिः संयोगविभागैर्नैरन्तर्येण असकृद् ग्रहणात्
महानिवावयववानिव प्रतीयते । तथा च नादपदवाच्यानां संयोगवि-
भागानामेव वृद्धिः ।
अन्ये तु ध्वनिरेव नादस्तत्र वर्णा व्यज्यन्ते, तत्र ध्वनीनां वृद्धथैव
शब्दवृद्धिर्विभ्रमः ।
न च रूपाद्रिवद् व्यञ्जकसमानदेशे व्यङ्ग्याभिव्यक्तौ बाधा, नवा-
दारुव्रश्चने दारुपरशुसंयोगनिवृत्तौ दूरस्थेन शब्दग्रहणानुपपत्तिः,
नवा व्यञ्जकाभावे व्यङ्ग्यग्रहणम्, दारुव्रश्चने दारुपरशुसंयोगनिवृत्तावपि
दारुपरशुसंयोगजनितानां वायुसंयोग-विभागानां श्रवणकाले सत्त्वात् ।
ते च यावद् दूरं गच्छन्ति तावत्पर्यन्तमेवस्तिमितवायुसमुत्सा-
रणं तावद्दूरमेव शब्दप्रत्यक्षमपि भवति । शब्दस्य तीव्रत्व-मन्दत्वादिक-
मप्युच्चारणस्यैव तीव्रत्वमन्दत्वादिसमारोपनिबन्धनं भ्रान्तिमूलकमेव ।
एवं पूर्वपक्षं निराकृत्य महामुनिर्जैमिनिः शब्दनित्यत्वं साधयितुं सूत्र-
मारचयाञ्चकार । 'नित्यस्तु स्याद्दर्शनस्य परार्थत्वात्' (पू० मी०
१।१।१८) नित्यः शब्दः स्यात्, दर्शनस्य दृश्यते व्यज्यतेऽनेनेति दर्शनम्
उच्चारणम्, तस्य परार्थत्वात्, अन्यस्यार्थस्य प्रतिपत्त्यर्थत्वात् ।
अनित्यत्वे कथं श्रोतुरर्थावगमपर्यन्तं स्थितिः स्यात् ? अन्यथात्वे कारणा-
भावात्कथमर्थापत्तिः स्यात् ? अर्थावगमपर्यन्तावस्थानेन नाशकाभावा-
दनाशे नित्यत्वमेव शब्दस्य सिद्ध्यति ।
'सर्वत्र यौगपद्यात्' (पू० मी० १।१।१९) सर्वत्र देशेषु कालेषु
चोच्चारितगोशब्दमात्रे गकार एक एव यौगपद्यात् । अबाधित-
प्रत्यभिज्ञाया युगपदुपपत्तेः । स एवायं गकार इति युगपदनेकेषां भवति
प्रत्यभिज्ञानम् । न ह्यनेके युगपद्भ्रान्ता भवन्ति ।
'संख्या ऽभावात्' (पू० मी० १।१।१९) दशकृत्वो गोशब्दोच्चारे
दशवारमुच्चारितो गोशब्दः इत्येव वदति लोकः । न च दशगोशब्दा-
उच्चारिता इति शब्दसंख्याभावात् नित्यः शब्दः । 'अनपेक्षत्वात्' (पू०
मी० १।१।२१) शब्दनाशकारणस्य सर्वसाधारण्येन ज्ञानाभावात् ।
घटपदादर्शनमात्रेण यथाऽसमवायिकारणादिनाशान्नाशो ज्ञायते ।
न तथा शब्दनाशकारणात् शब्द नाशो ज्ञायते ।
'प्रख्याभावाच्च योग्यस्य' (पू० मी० १।१।२२)
यदुक्तम्-वायुपरमाणुप्रकृतिकः शब्दः तदीयसंयोगैर्जन्यते, जन्यत्वा-
दनित्य एव शब्दः, वायुरापद्यते शब्दतामिति शिक्षावचनादिति तन्न,
योग्यस्य श्रोत्रेन्द्रियजन्यप्रत्यक्षविषयस्य शब्दस्य प्रख्याभावात् । अस्य-
वायुविकारस्येव वायुविकारस्य शब्दस्य श्रोत्रेन्द्रियग्राह्यत्वासम्भवात् ।
लिङ्गदर्शनाच्च' (पू० मी० १।१।२३) 'तस्मै नूनमभिद्यवे वाचा-
विरूपनित्यया । वृष्णे चोदस्व सुष्टुतिम्' इति मन्त्रे नित्यया वाचेति
लिङ्गं दृश्यते । तेनापि शब्दस्य नित्यत्वमेव सिद्ध्यति ।
आदिमत्त्वं कारणवत्त्वं कृतकवद्व्यवहारश्चोच्चारणस्यैव भवति
न शब्दस्य, उच्चारणस्यैव संयोगविभागजन्यत्वात् । ऐन्द्रियकत्वन्तु
नानित्यत्वप्रयोजकम् । त्वन्मतेऽपि नित्यस्य शब्दत्वस्यैन्द्रियक-
त्वाभ्युपगमात् ।
यदुक्तम्-शब्दो गुणः शब्दत्वात् ध्वनिवदिति तन्न, वर्णा न गुणा
ध्वन्यन्यत्वे सति श्रावणत्वात् शब्दत्ववत् । एतेन स्पर्शविरहितत्वे सति
एकेन्द्रियग्राह्यत्वात् रूपाद्रिवत् शब्दस्य गुणत्वमिति । तदपि न, पूर्वोक्तस-
त्प्रतिपक्षस्य तद्बाधकत्वात् । ह्यस्तनाद्यतनयोः प्रत्यभिज्ञानेन न
वर्णानां प्रत्युच्चारणमन्यत्वम् । उच्चारणञ्च न वर्णानां कारणं किन्त्वभि-
व्यञ्जकमेव ।
वायुरापद्यते शब्दतामिति शिक्षावचनन्तु वायुः शब्दाभिव्यक्ति-
हेतुतामापद्यते इत्यर्थक एव । यथा धेनुत्वमग्नेर्विदाहित्वञ्च गोर्गमकं
तथैव स्थिरः शब्दः सम्बन्धानुभवसापेक्षः सामान्यार्थावबोधको भवति ।
न कृतकत्वेनानित्यत्वसाधनं सम्भवति, कृतकत्वस्य परं प्रत्य-
सिद्धत्वात् । शब्दं करोतीति व्यवहारस्योच्चारणपरत्वेनोक्तत्वाच्च ।
नाप्यैन्द्रियकत्वमनित्यत्वहेतुः, आद्यमध्यमशब्दयोरैन्द्रियकत्वाभावात् ।