सामग्री पर जाएँ
सर्वकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 21, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 21

१६ वेदस्वरूप-विमर्शः
‘अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।
ऋचो यजूंषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥’ ( प्र० २।६ )
इति मन्त्रेऽपि चाग्निनाम्नि प्राणे ऋक्सामयोः प्रतिष्ठा प्रोक्ता—
“अग्निर्जागार तमृचः कामयन्ते । अग्निर्जागार तमु सामानि यन्ति ।
अग्निर्जागार तमयं सोम आह । तवाहंमस्मि सख्ये न्योकाः ।”
( ऋ० सं० ५।४४।१५ )
अत्राग्निनाम्ना यजुरेवोक्तम्, पूर्वोक्तब्राह्मणेन सहैकवाक्यतासिद्धेः ।
सोमस्य तत्सहचरत्वम् । ततो न्यूनत्वं 'न्योकाः' इति पदेनोक्तम् ।
भगवान् मनुरपि आह—
'एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् ।
इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम् ॥'
( १२ । १२३ ) ।
लोके सूर्याद्याः स्वज्योतिषः चन्द्राद्यास्तु अन्यस्यज्योतिरादाय
तदात्मसात्कृत्य परत्र तज्ज्योतिः प्रयच्छन्तीति परज्योतिषः कथ्यन्ते । येषु
ज्योतिर्नास्ति केवलं रूपमेव येषां दृश्यते, ते रूपज्योतिषः, पृथिव्याद्याः ।
येषां वाय्वादीनां रूपमपि न दृश्यते तेऽज्योतिषः । तत्र स्वज्योतिषि
सूर्ये वेदत्रयम् उक्तेन ब्राह्मणेनाम्नातम् । यावत्तेषां ज्योतिर्गच्छति तत्तेषां
मण्डलमिति परज्योतिषोऽपि पदार्था एवमेव निर्वक्तव्याः ।
रूपज्योतिषि पृथिव्यामपि वेदत्रयमाह श्रुतिः—
‘त्रयी वै विद्या ऋचो यजूंषि सामानि इयमेवर्क् । अस्यां
त्वर्चि योऽर्चति स वागेवर्क् । वाचा ह्यर्चति योऽर्चति ।
सोऽन्तरिक्षमेव यजूंषि द्यौः सामानि । सैषा त्रयी विद्या
सौम्येऽध्वरे प्रयुज्यते ।’ ( शत० ४।६।७।२ ) ।
अत्र पृथिव्या ऋक्त्वं तस्या व्युत्पत्तिश्चापि व्याख्याता । अन्त-
रिक्षस्य यजुष्ट्वम्, दिवः सामत्वञ्चाम्नातम् । प्राणरूपोऽग्निः पृथिव्या
उत्थाय द्युलोकपर्यन्तं गच्छति । तत्र दिव्यस्याः साममण्डलम्, मध्ये-
ऽन्तरिक्षे तु यजुर्मण्डलमिति श्रुत्या पृथिव्या ऋक्त्वम्, अन्तरिक्षस्य
यजुष्ट्वम्, दिवश्च सामत्वमाख्यातम् । तत्तल्लोकस्थितानि ऋग्यजुः-
साममण्डलानीति तात्स्थ्यात् ताच्छब्द्यं श्रुतौ द्रष्टव्यम् । स्थानत्रयस्थिता
अग्निवाय्वादित्याख्योऽप्यग्नेरेव रूपाणीत्यपि श्रुतिषु असकृदुपदिष्टम्—
वेदस्वरूप-विमर्शः १७
‘एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ।’
( ऋ० १ । १६४ । ४६ ) इति ।
तत एव 'ऋग्वेद एवाग्नेरजायत, यजुर्वेदो वायोः, सामवेद आदित्यात्’
( ऐ० ब्रा० २५।३२ ) इत्यग्निवाय्वादित्येभ्यस्त्रयाणां वेदानामुत्पत्ति-
राख्याता ।
'इतरेतरजन्मानो भवन्ति इतरेतरप्रकृतयः ।'
इति ( निरु० ७ । ४ । १२ ) निरुक्तकृदुक्तदिशा वेदेभ्यो देवा जायन्ते,
देवेभ्यश्च वेदाः, इति वैज्ञानिकप्रक्रियायां नात्र विशेषः। तन्तुभ्योऽपि
पटो जायते पटाच्च तन्तव इति लोकेऽपि दृश्यते । तस्मादेकरूपतैव
अभिमता कार्यकारणयोः । मनुरप्याह—
'अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।
दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम् ॥' ( १ । २३ )
वेदेष्वप्ययं सङ्केतः— ‘ऋग्वेदश्च 'अग्निमीळे पुरोहितम्' इति पुरो
दृश्यमानं पार्थिवमग्निमेवारम्भे प्रस्तौति । यजुर्वेदश्च 'इषे त्वोर्जे त्वा
वायवः स्थः' इति वायुमेव प्रस्तुत्यैवारभ्यते । सामवेदश्चारम्भे 'अग्न
आयाहि वीतये' इति सूर्यमण्डलात् आयान्तमग्निं सूर्यमेवादौ प्रस्तौति ।
पृथिव्याः प्राण रूपोऽग्निः पृथिव्या उत्थाय सूर्यमण्डलपर्यन्तं गच्छति ।
यावत्पर्यन्तं रूपज्योतिषः प्राणाः प्रसर्पन्ति, तावत्पर्यन्तमेव तद्वस्तु
दृश्यते । यस्य पदार्थस्य साममण्डलेऽन्तर्गतमस्माकं चक्षुः, तदेवास्माभि-
रालोक्यते । यस्य तु साममण्डलं नास्माकं चक्षुरिन्द्रियपर्यन्तं
व्याप्नोति, तन्न दृश्यते । अत एव येषां वस्तूनां साम ऋगनुसारेण
विस्तृतं तदेव दूरादालोक्यते । तत्रैव स्थिता लघवः पदार्थाश्च न
दृश्यन्ते, तेषां लघूनां साम्नोऽस्मच्चक्षुःपर्यन्तमव्याप्तत्वात् ।
पृथिव्याः साम रथन्तरमुच्यते—'सूर्यरथं तरती'ति सूर्यमण्डल-
मभितो विराजमानं देवमण्डलमेव सूर्यरथ उच्यते। यथा सूर्योपस्थान-
काले वदामः—‘चित्रं देवानामुदगादनीकम्’ ( ऋ० १ । ११५ । १ ) ।
एतेन सूर्यमण्डलमभितो देवानां प्राणभूतानामनीकं सेना तिष्ठति ।
२