वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 172, कुल 237 में से
संदर्भ में पढ़ेंपरिग्रहं वर्णयन्ति । अन्ये स्वागमानाम् । तदिदं सर्वमप्रमाणमेव ।
नैतत्सर्वं मीमांसकैः कल्प्यते वेद प्रामाण्याय ।
“दृष्टादधिकं न किञ्चिददृष्टं परिकल्प्यते ।”
अपौरुषेयत्वेन नित्यनिर्दोषस्यासंदिग्धाविपर्यस्ताबाधितज्ञान-
जनकस्य वेदस्याप्रामाण्यशङ्काया नास्त्यवकाशः । दोषसंशयात् प्रामाण्य-
संशयः, दोषनिश्चयाच्चाप्रामाण्यनिश्चयः । यथा चक्षुरादीनां
प्रमाजनकत्वं स्वाभाविकम्, यथैव शब्दस्यापि स्वाभाविकमेव तत् ।
अत एव 'स्वर्गकामो यजेत' इति वेदवाक्येन विदितपदपदार्थ-
शाब्दन्यायसतत्त्वस्य यागात् स्वर्गो भवतीत्यसंदिग्धमेव गम्यते ।
भवति स्वर्गो न वा ?, न भवतीत्येवेति संशयविपर्ययादिकमनेन न
भवत्येव । तदुक्तं शबरस्वामिना - “यो हि जनित्वा प्रध्वंसते
नैतदेवमिति स मिथ्याप्रत्ययः । न