सामग्री पर जाएँ
सर्वकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 169, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 169

३१२ वेदस्वरूप-विमर्श
न हि ज्ञानत्वमात्रेण संशयः, तस्य साधारणधर्मादिनिश्चयाधीनत्वात् ।
तस्मात् अवश्यं कानिचित् ज्ञानानि अप्रमाणान्येवोत्पद्यन्ते, यत्र दूरत्वा-
दिदोषसम्भवादप्रामाण्यशङ्का, तत्रापि प्रत्यासत्तिगमनादिनाऽन्यतरपदार्थ-
निर्णयात् नातिदूरगमनम् । तृतीयज्ञाने यदि दोषो न संभावितः,
ततस्तदवधिरेव निर्णयः । यदि सम्भावितस्तत्त्वन्निराकरणप्रयत्नेन
चतुर्थज्ञानावसानो निर्णयः, नाधिकज्ञानापेक्षा ।
तृतीयेन चतुर्थेन वा द्वितीयस्य तृतीयस्य वा बाधे आद्यस्य द्वितीयस्य
वा यस्यैव प्रामाण्यं समर्थ्यते, तस्य स्वाभाविकं प्रामाण्यमनपोहितं भवति ।
इतरदपवादादप्रमाणमिति नातस्था । तदुक्तम्—
“एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः ।
प्राप्यते तावतैवैकं स्वतःप्रामाण्यमश्नुते ॥”
तत्र शब्दे वक्तृधीन एव दोषोद्भवः, क्वचिद् गुणवद्वक्तृकत्वेन
दोषाभावश्च । वेदस्य चापौरुषेयत्वात् पुरुषाभावेन निराश्रयत्वात्
दोषाभावेनाऽनपोहितं स्वतः प्रामाण्यमेव ।
न च वक्तृगुणान्वयव्यतिरेकानुविधायित्वात् शब्दस्य गुणाधीनमेव
प्रामाण्यमिति तदभावेन वेदस्याप्रामाण्यमेवेति वाच्यम् । प्रमाणानां
परायतत्प्रामाण्यस्य निराकृतत्वेन प्रामाण्यस्वतस्त्वसाधनात्, अन्वयव्य-
तिरेकयोश्च दोषाभावेन गतार्थत्वाच्च प्रमाणभूतपौरुषेयवचस्सु न केवलं
गुणा दृष्टाः किन्तु दोषाभावोऽपि दृष्टः । दोषाभावनिबन्धन्तवेन
प्रामाण्यस्य वेदेऽपि सुलभत्वात् ।
न चैवमपि प्रामाण्यपरतस्त्वमेवायाताम्, तस्यापवादाभाव एवेोप-
योगित्वात् । गुणेभ्यो दोषाभावाद्वाप्रामाण्यद्रव्याभावः, तत्तच्चानपोहितं
स्वतःप्रामाण्यमेव तिष्ठति । यत्र साक्षाद्विपरीतबोधकज्ञानादर्थान्यथात्वम-
वगम्यते, यत्र च दोषज्ञानेनोभयत्रापि ज्ञानस्यायथार्थत्वे दोषा एव कारणम्,
दोषाभावेन तद्द्वयासत्त्वेनोत्सर्गस्यानपवाद एव सिद्ध्यति । अपवादा-
भावे प्रत्ययोत्पत्तिहेतुत्वात् प्रत्यक्षादिवत् पौरुषेयवाक्यस्यापि प्रामाण्यं
ग्राह्यम्, तन्नापनीयते । एवं पौरुषेयवाक्यस्यापि स्वतःप्रामाण्ये सिद्धे-
ऽपौरुषेये वेदे तु सुतरां स्वतःप्रामाण्यम् ।


वेदप्रामाण्य-विमर्शा ३१३
ननु दोषाभावस्य गुणाधीनत्वे पुनरपि सैव स्थितिरिति चेन्न ।
प्रामाण्यावधारणे गुणानां ज्ञायमानत्वेन कारणत्वेऽनवस्थासम्भवेऽपि
दोषाभावस्य सत्तामात्रेणापकारित्वेन तदसम्भवात् । गुणनिरकृतदोषा
औत्सर्गिकं प्रामाण्यं नोपघ्नन्तीति कानवस्थावकाशः ? वेदे तु वक्तृप्रभा-
वादपवादनिवृत्तिस्ततोऽपि लघीयसी, तेन तत्रापवादशङ्काऽपि नोदेति ।
एवं लोकेऽपि शब्दप्रामाण्यस्य वक्तृनपेक्षाभावेन वेदप्रामाण्यसिद्धयर्थं
कर्तृकल्पनमनावश्यकम् । शाक्यादिवत् अप्रामाण्ये कल्पयितव्ये एव
कर्तृकल्पना युक्ता । यथोक्तमात्राप्रणीतत्वेन, बालोन्मत्तादिवाक्यवद-
प्रामाण्यमेवेति चेन्न । प्रामाण्यस्वतस्त्वसिद्धेः । न च तर्हि पौरुषेयेऽपि
वाक्ये प्रमाणान्तरापेक्षाऽनपेक्षणीयेति वाच्यम् ; तथात्वेऽप्रमाणमूलतया
दुष्टमूलत्वेन प्रामाण्यापवादापातात् । वेदे त्वपौरुषेयतयाऽप्रमाणमूलत्वा-
शङ्काया अभावेन तद्योगात् । वेदे प्रमाणान्तरमूलाभावो भूषणमेव, न
दूषणम् । प्रमाणान्तरविषयत्वेनानधिगतगन्तृत्वाभावेनानुवादक-
त्वापत्तेः ।
ननु प्रत्यक्षादीनां पौरुषेयवाक्यानाञ्च प्रमाणान्तरसंवादनिबन्धनमेव
प्रामाण्यम्; अतो वेदस्यापि तथात्वमेवेति चेन्न । प्रमाणान्तरसंगतिरू-
पसंवादस्य प्रामाण्यविरोचित्वेन तद्धेतुत्वानुपपत्तेः । यत्रैकस्मिन्नर्थेऽनेक-
प्रमाणसन्निपातस्तत्र तेषामन्योन्यनिरपेक्षार्थावबोधहेतुत्वेन तुल्यानामेव
प्रामाण्यम् , न समुच्चितानाम् । अतः प्रमाणान्तरमूलत्वेनानुवादत्वा-
पत्त्या नो संवादाधीनं प्रामाण्यम् ।
ननु चैकमेव वस्तु दूरात् दृष्ट्वाऽपि पुनः प्रमित्सयैव प्रत्यासीदन्तो
दृश्यन्ते । तदेतत्पूर्वस्य नैरपेक्ष्ये नोपपद्यते । अतः संवादापेक्षमेव
प्रामाण्यमिति चेन्न । अप्रमितिविशेषप्रमित्सयैव प्रत्यासत्त्युपपत्तेः । तदुक्तम्—
“यत्रापि स्यात्परिच्छेदः प्रमाणैरुत्तरैः पुनः ।
नूनं तत्रापि पूर्वेण सोऽर्थो नावधृतस्तथा ॥”
यदि हि उत्तरोत्तरप्रमाणसंवादेन पूर्वपूर्वप्रमाणानां प्रामाण्यं भवेत् ,
तदानवस्थानात् न क्वचिद् व्यवस्था स्यात् ।