वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 164, कुल 237 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the Sanskrit text from the image into clean Markdown Devanagari.
पृष्ठ ३०२ (Left Page)
३०२ वेदप्रामाण्य-विमर्शः
बाधकस्तर्कः । न च निलीनस्यैव प्रमाणस्यार्थव्यवहारजनकत्वोपपत्त्या
नानवस्थेति वाच्यम् । तथात्वनिश्चायकप्रमाणाfieldनुदये तदस्तित्वस्यैव
निश्चेतुमशक्यत्वात् । ननु ज्ञानस्य स्वतः स्फुरणं भवतु, तत्प्रामाण्यं
तद्गतगुणत्वादिबदन्यत एवावगम्यतामिति चेन्न । तस्यादित एव प्रमाण-
त्वेनास्फुरणे तद्विषये निःशङ्कप्रवृत्त्यनुपपत्तेः । नहि ज्ञानमात्रेण प्रवृत्तिः
संभवति, मरुमरीचिकादौ सत्यपि 'विज्ञाने तदप्रामाण्यनिश्चये प्रवृत्त्य-
दर्शनात् ।
न चाप्रामाण्यास्फुरणे प्रामाण्यप्रत्ययमन्तराऽपि ज्ञानमात्रात्कुतो न
प्रवृत्तिरिति वाच्यम् । प्रामाण्याप्रामाण्ययोरुभयोरस्फुरणे संशयात्प्रवृत्त्य-
नुपपत्तेः । अस्ति चानभ्यासदशायां नववनस्थलीस्थितेषु फलितसह-
कारादिषु तत्फलेप्सोर्निःशङ्कप्रवृत्तिः । पारलौकिकफलसाधनेषु निःशङ्क-
प्रवृत्तिर्नैयायिकादिभिः प्रामाण्यनिश्चयपरतन्त्रैवोपैयते । न च कृष्यादौ
संशयेऽपि प्रवृत्तिर्भवतीति वाच्यम्; तत्र निःशङ्कप्रवृत्तेरभावात् । तस्मात्
प्रामाण्यनिश्चयार्थीनैव प्रवृत्तिरुपेतव्या, अन्यथा प्रामाण्यानिश्चयाद्वि-
वृत्तिरपि सम्भवत्येव । तस्मात्पूर्वोक्तप्रवृत्तिसिद्धये स्वत एव प्रामाण्यं
प्रमाणानामनिच्छताप्यङ्गीकार्यम् । अत एव 'फलेऽपि स्वतस्त्वमेव
ज्ञेयाभिव्यक्तिलक्षणस्य फलस्य ज्ञानमात्रादेव सिद्धेः ।
न्याय्रकणिकायां वाचस्पतिमिश्रास्तु - "ननु बाधकारणदोषाभ्याम-
प्रामाण्यज्ञानात् तद्भावमहापेक्षप्रामाण्यनिश्चयेन न स्वतः प्रामाण्यमिति
चेन्न । एकहेतुत्वकल्पनायां कार्योत्पत्त्यावंक हेतुत्वकल्पनानुपपत्तेः । बाधस्य
कारणदोषग्रहणस्य चाप्रामाण्यनिश्चयहे भावमात्रेण प्रामाण्योपहन्तृत्वेन
तदभावे बोधमात्रादेव प्रामाण्योपपत्तौ न तदभावोऽपेक्षणोयः। स च
सत्यामाशङ्कायाम्। सा च यादृशे विषये दृष्टचरी तादृशे एव न सर्वत्र ।
तस्मात्स्वत एव प्रमाणानां प्रामाण्यम्, वह्नेर्दाहनसामर्थ्यवत् । तदेव
चोक्तम् भट्टपादैः-
'स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् ।'
इत्यादिना ।
पृष्ठ ३०३ (Right Page)
वेदप्रामाण्य-विमर्शः ३०३
नन्वव्यभिचाराग्रहे ज्ञानमात्रादनाश्वासप्रसंग इति चेत् ; कोऽयम-
नाश्वासो नाम ? संशयः, आहाविद् अज्ञानम् ? न चरमः बोधस्यैव
जातत्वात् । न प्रथमः विशेषस्मृत्यपेक्षाविमर्श त्रिकारणं पञ्चकारणं वा
संशयं रोचयन्ते 'समानानेकधर्मोपपत्तेर्विप्रतिपत्तो रुपलब्ध्यनुपलब्धिव्य-
वस्थातश्च विशेषापेक्षो विमर्शः संशय' इति तद्विशेषाः। न चागृहीते
विशेषे न स्मरणसंभवः, न वा संशयात्मैतद्ग्रहणं स्मृतिहेतुः, स्मृतौ
सत्यां तदभावान्, तस्मिंश्च स्मृत्युपपत्तोरन्योन्याश्रयप्रसंगात् । संस्कारज-
त्वेऽपि प्रसंगात्तदवस्थात् । अनादित्वाच्च गत्यन्तरसम्भवेऽनाश्रय-
णात् । तस्माज्ञाव्यभिचारनिश्चयो ज्ञानस्य स्वार्थनिश्चयनिमित्तम्, तस्यो-
त्पत्तौ तदपेक्षत्वात् । यत्स्वरूपोत्पत्तौ यदपेक्ष्यते, न तत्तस्य हेतुः, यथाऽनु-
मेयविज्ञानं लिङ्गविज्ञानस्य । न चासिद्धताहेतुः, स्वार्थनिश्चयापेक्षम्
तदव्यभिचारविज्ञानमिति कार्यात्यन्ताभावित्त्वे कारणत्वं व्याहृतम्; तद्वि-
पक्षविरुद्धोपलब्ध्या वर्तमानं कारणत्वमपि व्यावर्तयति इति प्रतिबन्ध-
सिद्धिः । अर्थप्रापणशक्तिरपि तस्यार्थप्रदर्शनान् नान्या । नहि
ज्ञानमात्मीयहस्ते वस्तूपनयति, अपि तु तत्र प्रवर्त्तयति ज्ञातारम् ।
प्रवर्त्तनमपि तस्य न वस्तुतत्त्वोपदर्शनादन्यत् । अर्थस्य वस्तुतत्त्वमपि
न स्वरूपादन्यत् । तच्चास्य रूपमनुभवः स्वभावत
एवानुभवति न पुनरव्यभिचारायपेक्षते । तदिदमेवानुभवस्याऽर्थे स्वतः-
प्रामाण्यम् ।
यदनुभूयमानाद्रूपात् अर्थस्यान्यथात्वं न तदनुभवत्यनुभवो रजत-
भ्रमेण तदन्यत्वावग्रहणे रजतार्थिनस्तत्राप्रवृत्तेर्बाधकानुपपत्तेश्च । ततश्च
ज्ञानान्तरादवसेयमन्यथात्वं तेन तत्रान्यदपेक्षत इति तदेवास्थ्य परतोऽप्रा-
माण्यम् । यत्पुनरस्य तत्त्वावबोधरूपत्वं विज्ञानस्य तदपि तद्ग्राहिणः
प्रत्ययान्तरन्मानसादानुमानिकाद्वावगम्यमानं स्वत इत्युच्यते, तत्स्वरूप-
ग्राहिणः प्रत्ययात्प्रत्ययान्तरानपेक्षणात् । न चास्य बाधकाशङ्कायामप्रा-
माण्यमाशङ्कनीयम्, बाधान तत्प्रहाङ्कानुपपत्तेः ।
नैयायिकाद्यस्तु - ज्ञानञ्च स्वविषयोचितव्यवहारप्रवर्तनेऽव्यभिचा-
रितामपेक्षते । न हि विज्ञानं विज्ञानमित्येव व्यवहारं प्रवर्त्तयति, मिथ्या-