वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 158, कुल 237 में से
संदर्भ में पढ़ें२४० वेदस्वरूप-विमर्शः
उपरिष्टादाज्यभागाः स यजमानं स्वर्गलोकमभिवहति य एवमेतद्वेद ।
अनया आख्यायिकया स्पष्टमिदं सिद्धयति यद्दर्शपूर्णमासभूता अध्यात्मं याः
क्रियास्ता एव दन्तलोमाद्युत्पादिकास्तत्र परिवर्त्तनादिकारिण्यश्च भवन्ति ।
ये तु दर्शपूर्णमासादिष्वनुष्ठीयमानाः क्रिया एव दन्तमूलाद्युत्पादिकाः
इत्यागृह्णीरन् ते सर्वेषु प्राणिषु दन्तलोमाद्युत्पत्तिं तत्परिवर्त्तनानि च न
समाधातुमीशते ।
येऽपि द्विजातिरिक्ता म्लेच्छादिका दर्शपूर्णमासादिकं नानुतिष्ठन्ति
तेषामपि दन्तलोमादिर्जायते परिवर्तते च तस्मान्मूलतया प्राणादिक्रिययैव
तात्पर्य्यं नेयं स्यात् । अधिदैवञ्च या गायत्री सैव यजमानं स्वर्गे लोके
प्रापयतीति च ।
तदित्थं मूलभूतं प्राकृतं यज्ञमेवावलम्ब्य कृत्रिमा यज्ञा वेदेषु विहिताः।
[L