वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 156, कुल 237 में से
संदर्भ में पढ़ें२८६ वेदस्वरूप-विमर्शः
कर्मणामीश्वरस्य च नापेक्षा भवति। वैदिकानां तु सर्वत्रेश्वरस्य कर्म-
णाञ्चापेक्षा चेति महान् भेदः। विकासवादिनां मतेरीत्या अमीबादय एव
तेन तेन रूपेण विकसन्ति । वैदिकानां मते तु अमीबादिशरीरेभ्यो
विलक्षणा निरवयवा निराकाराः सूक्ष्मा जीवा एवानादिशरीराणि
गृह्णन्ति। वैदिकानां दृष्टौ 'जायते, अस्ति, वर्धते, विपरिणमते, अप-
क्षीयते, विनश्यति, इति यास्कोक्तरीत्या विकासह्रासपारम्पर्य्यमेव
वक्तुं शक्यते। वर्षासु तृणान्युत्पद्यन्ते । क्रमेण सन्तो वर्धन्ते । विपरि-
णमन्ते । अपक्षीयन्ते । विनश्यन्ति च ग्रीष्मे । युगदृष्ट्या तु विकास-
वादिनां विकासो जायते। वैदिकानां रीत्या तु ह्रास एव वक्तुं शक्यते ।
'ह्रासदर्शनातो ह्रासः सम्प्रदायस्य मोषतामिति न्यायाचार्य्योक्तेः। विकास-
वादिनां दृष्ट्या पूर्वजेषु बुद्धिवलादिह्रास एवासीत् । वैदिकानां रीत्या
तु पूर्वजेषु बुद्धिवलादीनामाधिक्यमेवासीत् । अतएव वैदिकानां 'पूर्वे
पूर्वेभ्यो वच एतदूचुः' इति रीत्या पूर्वजानां प्रामाण्यम् । विकासवादिनां
तूत्तरेषां ज्ञानशक्तिविकासातिशयात्तेषामेव प्रामाण्यम् । किञ्च
सूर्य्याकर्षणाधिक्यं क्वचिद्भवति क्वचिन्न भवतीत्यत्र कर्मवैचित्र्यमन्तरा
को हेतुः ? कर्मणामभ्युदयहेतुत्वमवसितं चेत्, किं सूर्य्याकर्षणेन,
सूर्य्याकर्षणेन पृथिव्याकर्षणविमुक्तिः क्रमेण विकासे बुद्धिविकासश्चे
त्यपि न शोभनम् । मशकपतङ्गादीनां खद्योतादीनां क्षुद्राणामपि
पृथिव्याकर्षणविमोकदर्शनात् । पिपीलिका मधुकरादीनां पश्वाद्यपेक्ष-
याऽपि विकासवादिभिर्बुद्धिवैभवाभ्युपगमात् । देवा अपि मोक्षा-
काङ्क्षया मनुष्यत्वमाकाङ्क्षन्ते । तेनसूर्याकर्षणविशेषेण पृथिव्या-
कर्षणविमुक्तिरिति यत्किञ्चित् । विस्तरस्तु 'मार्क्सवाद रामराज्य'
पुस्तके द्रष्टव्य इति नेह प्रतन्यते ।
यदप्युक्तम् “द्वया वै देवा अहैव देवा अथ ये ब्राह्मणाः सुश्रुवांसोऽ-
नूचानास्ते मनुष्यदेवा इत्यादिश्रुत्यनुसारेण पृथिवीस्था देवा अपि”
तत्सत्यम् ।
यदुक्तम् "पृथिवीस्थेष्वपि देवेषु द्वैविध्यम् । उत्तरस्यां दिशि
शय्यंणावतः पर्वतस्योत्तरभागे प्रकुविरचितां देवसंस्थामुपजीव्य
वेदस्वरूप-विमर्शः २८७
पुरा पृथिव्यामपि देवसंस्था प्रकल्पते स्म। देवविशः कल्पयि-
तव्यास्ता अनुमनुष्यविशः कल्प्यन्ते (ऐ० ब्रा० २।३२) तत्संकेतः ।
मर्त्येष्वपि बहवो देवासुरयुद्धाद्याः परस्परं संघर्षाः परस्परं सम्मेलनानि
चैतेषां देवानां निरूपितानि । 'सहस्राश्वीनं वा इतः स्वर्गलोकः' इत्येत-
रेयत्यादिश्रुत्यैव स्वर्गलोकस्य संकेतंः कृतः (ऐ० ब्रा० १२।१७)
पुराणेषु त्स्य स्वर्गलोकस्य विवरणमुपलभ्यत। दशरथादीनां भारतीयानां
राज्ञां देवसाहाय्यार्थं देवासुरयुद्धे गमनम् । महाभारते तीर्थयात्रां
कुर्वतां युधिष्ठिरादीनां पाण्डवानां स्वर्गदर्शनम्, कुबेरेण समागमः,
अर्जुनस्येन्द्रसमीपेऽध्ययनम्, बहुकालपर्यन्तं स्वर्गे निवासः, निवातकव-
चादीनां हननम्, द्वैतवने युधिष्ठिरादीनां गन्धर्वैर्युद्धमित्यादि सर्वमेतानेव
स्वर्गदेवादीनधिकृत्य सुसंगतं भवति । एवं भारते विशिष्टा विद्वांसो
महाराजाश्च मनुष्यदेवपदेन व्यपदिश्यन्ते । सा भूलोकनिवासिनां देवानां
द्वितीया विधा। तदेवं मुख्या प्राणरूपा देवाः १। तेषामध्यात्मं रूपम् २ ।
अधिदैवतं तारामण्डलादिरूपम् ३ । अधिभूतमन्यादि ४। लोकान्तरस्थाः
प्राणिनो देवाः ५। भूमण्डलस्थाः सुमेरुप्रान्तनिवासिनो देवाः ६। भार-
तस्य विशिष्टा विद्वांसो वीराश्च देवाः ७। एतेषां परस्परं कः सम्बन्धः ?
कुतश्चैकस्यैव देवशब्दस्य तद्विशेषवाचकानामिन्द्रावरुणादिशब्दानाञ्च
विभिन्नेषु प्रवृत्तिरिति वैदिकरहस्यम्, तदेवावगन्तुं ब्राह्मणा ब्रह्मचर्यं
चरन्ति स्म। अवगत्य च यज्ञादिविधानेन स्वां देवरूपेण परिणमयन्ति
स्म । तदेत भारतीयानां सर्वस्वभूतरहस्यम् । भेदतिरोधिनां प्रगल्भैरा-
क्रमणैर्विलुप्तप्रायम् । एतद्रहस्यज्ञानाधीनैव वैदिकी यज्ञप्रक्रिया
विलुप्तप्राया।" इत्यादिकम् ।
तदपि न, समीचीनम् धर्मब्रह्मणोरेव वेदतात्पर्य्यविषयतया
सर्वत्रप्रतिपादितत्वेन तत्पारम्पर्य्याविच्छेदस्याद्यापि सत्त्वात् । वेदे
तावत्परापरभेदेन देवद्वैविध्यं दृश्यते। परो देवः परमेश्वर एव। 'एको-
देवः सर्वभूतेषु गूढः' इत्यादि श्रुतेः। तस्यैव शिवविष्णुरामकृष्ण
त्रिपुरादिरूपेण सर्वकारणत्वादिकमपि श्रूयते । अपरश्च प्राणरूपो
देवाः। तस्यैव च विस्तारस्त्रयस्त्रिंशदादयः अध्यात्ममधिदैवञ्च । तेषां