वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 151, कुल 237 में से
संदर्भ में पढ़ेंतदपि भौतिकविज्ञानानुकरणमेव । अपञ्चीकृतं सूक्ष्मजलन्तु स्थूल-
जलापेक्षयाऽत्यन्तं विलक्षणमित्यत्र तु न विप्रतिपत्तिः । यज्ञमयत्वयज्ञ-
प्रवर्त्तकत्वादिकन्तु काल्पनिकमेव । भृग्वङ्गिरोमयत्वमपि भाक्तमेव ।
यदपि च "अनिरुक्तः कः सः कस्मै तस्मै इत्यादि शब्दैः प्रजापति-
रीश्वरो बोध्यते । राजतन्त्रे यद्वस्तु न कस्यचित्तद्राजकीयं भवति तद्वत् ।
कः प्रजापतेर्व्याहृतिः । अहल्यादि नामानि निरुक्तानि, क इत्यादीनि
अनिरुक्तानि, कस्त्वा युनक्ति इति प्रजापतिव्याहृतिः, प्रजापतेरनन्तानि
रूपाणि, अनिरुक्त उद्गीथः । 'सर्वं' इति रूपत्रये तान्यन्तर्भवन्ति
तत्राप्यनिरुक्तप्रजापतिरेव मुख्यं वस्तु, स एवोद्गीथप्रजापतिः, स
एव च सर्वप्रजापतिः, प्रत्येकं वस्तुनः केन्द्रेऽक्षरं ब्रह्म भवति, तदेव
अनिरुक्तप्रजापतिहृदयमेव तद्रूपम् । विन्दुरपि न हृदयस्य निर्वचनं,
यतो बिन्दोरपि केन्द्रो भवति । केन्द्रस्थप्रजापतेरेवाग्नीषोमाभ्यां वस्तु-
पिण्डनिर्मितिः । तत एव महिममण्डलनिर्मिति"रित्यादिकमपि न,
सर्वकारणपरमेश्वरस्यैवानिरुक्तप्रजापतिरूपत्वे बाधकाभावात् । महिम-
मण्डलनिर्माणन्तु निष्प्रमाणमेव ।
यदप्युक्तम्- "मण्डलस्यैव प्रत्यक्षता, पिण्डस्य तु दर्शनं न भवति,
स्पर्शनमेव भवति । सर्वोऽपि पिण्डः सोमगर्भिताग्निमयः । अग्निश्च
मर्त्यामृतचित्यचितेनिधेयभेदेन द्विविधः । चित्येन वस्तुपिण्डः, चितेनि-
धेयेन महिमनिर्मितिः । यतो बिन्दुमात्रं वस्तु दृश्यते, केन्द्रमारभ्य तावद् दूरं
परितो मण्डलं महिममण्डलं । तावत्पर्यन्तमहिम्ना वस्तु व्याप्नोति ।
तदेव बहिर्मण्डलमपि" तदपि निर्मूलम्, यदेव दृश्यते तदेव स्पृश्यत
इति प्रत्यभिज्ञया दृष्टस्पृष्टयोरेकत्वात्सर्वस्य जगतोऽग्नीषोमात्मकत्वेन
सर्वपिण्डानां तदात्मकत्वं तु न विरुद्ध्यते । चित्यचितेनिधेयशब्दाभ्यां
चयनक्षेत्राहवनीययोरेव ग्रहणम् । सर्वपिण्डोपादानस्य चित्यरूपत्वे
महिमोपादानस्य चितेनिधेयत्वे प्रमाणाभावात् ।
यदपि 'यज्ञ एव संसारः अग्नीसोमात्मकः । तत्समन्वय एव यागः ।
अनिरुक्तप्रजापतिरेवाग्नीषोमद्वारा विश्वं भूत्वा निरुच्यते । क स
इत्यादिना । तदपि निर्विचाररमणीयम् । सर्वेषामप्यन्तर्यामिसूत्रवैश्वा-
नरेष्वन्तर्भावात् । पिण्डायुपाधिभेदेन तेषामप्यौपाधिकभेदसंभवात् ।
यागत्वमपि काल्पनिकमेव । द्रव्यदेवतालक्षणस्य यागरूपस्यैव विधि-
वाक्यैर्बोधनात् । अन्यत्त्विष्टमेव ।
यदपि च "अपां प्रणयनात्पूर्वं वेदेदक्षिणभागे ब्रह्मा प्रतिष्ठितो
भवति । मूलेऽनिरुक्तस्तूले सर्वप्रजापतिः । यज्ञप्रारंभे मूलप्रजापतेरनि-
रुक्तप्रजापतेरनिरुक्तव्याहृतिभिरापः प्रणीयन्ते । प्रजापतिर्यज्ञोपादानम् ।
तेनाभेदाभिप्रायेण यज्ञः प्रजापतिः । ब्रह्म वै सर्वस्य प्रतिष्ठेति प्रजापति-
मंत्रोच्चारणाभावेऽप्रतिष्ठित एव यज्ञो भविष्यति । प्रजापतिमेवैतद्यज्ञं
युनक्ति' इति तद्भवतु, अविरुद्धाया उपपत्तेर्ग्रहणे बाधाभावात् ।
यदपि "विश्वमद्भिरुद्यतम्, सर्वमापोमयम्, अत्र ऋतमेवापः
तदेवापोमयस्य परमेष्ठिनो मनोता । तदेव भृग्वङ्गिरोमयम । भृगोर्घन-
तरलबिरलावस्था अन्वायुरोमाः । आपोऽपि वायुरेव । स्थूलजलारम्भ-
कत्वादप्शब्दव्यपदेश्यता, सूर्यस्योपरिष्टाद्भवित्वात्तदम्भःपदव्यपदेश्यता
च । पुराणेषु सूर्य्याण्ड एव ब्रह्माण्ड उच्यते । तदम्भो ब्रह्माण्डं भित्त्वा
पृथिवीलोकमागच्छद् गङ्गाजलमुच्यते । तत्र बाहुल्यमस्ये"ति तदपि न
भृग्वङ्गिरोसोरप्याप्यादिहेतुत्वे वायोः पूर्वमाकाशादिभवयोः सृष्टेर्वक्तव्य-
त्वापातात् । तेनावान्तराप्यादिसम्बन्ध एव तयोर्हेतुत्वम् ।
यच्च आपोमयपरमेष्ठिविष्णुस्थानम्, तत एवागतत्वाद्विष्णुपाद-
प्रभवत्वम् गङ्गाजलस्य, तत्रत्येनाम्भसा पवमानवायुना च संयुक्तेन जल-
मुत्पद्यते । तदेतद्द्वयं हाइड्रोजन-आक्सीजन इत्युच्यते । अम्भः समुद्र एव
परमेष्ठिरसमग्नत्वात् परमेष्ठीसरस्वान् । तत्सम्बन्धिनी वाक् सरस्वती"
इत्यादि, तदपि न, तादृक्परमेष्ठिनो गङ्गेव निःसृतेति कल्पनामात्रमेव ।
यदि पुराणवचनानुसारेण सा कल्पना । तदा तु पुराणानुसारी विष्णुरपि
परमेश्वर एव ग्राह्यः । एकस्मादेवस्थानाद् गङ्गावदन्या अपि नद्यः
प्रभवन्ति, तत्र तासु गङ्गाया एव वैशिष्ट्यस्य युक्त्यानया साधयितुम-
शक्यत्वान एकस्यामेव नद्यामृतस्य बाहुल्यं नान्यत्रेति विनिगमनाभावात् ।
किञ्च अन्यत्र भृगोः प्राणरूपत्वमुक्तम्, प्राणस्य चानवरोधकत्वरूपत्व-