वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 149, कुल 237 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the provided image into Devanagari text with line markers.
पृष्ठ २७२
२७२ वेदस्वरूप-विमर्शः
'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायतेवृष्टिर्वृष्टेरन्नं ततः प्रजाः।'
इति मनुवचनमप्यत्रानुकूलम् ।
अत्र यज्ञोऽपूर्वंरूप उक्तः। स च यज्ञः कर्मसमुद्भवः ऋत्विग्यजमान-
व्यापाररूपकर्मसाध्यः । यज्ञस्य साक्षात्तद्धेतुत्वे पारम्पर्योक्तिः स्पष्टं
विरुद्ध्येत । भगवद्दृष्ट्या नादानप्रदानलक्षणो न वा कथञ्चिदग्नौ
सोमप्रक्षेपरूपो यज्ञः ।
एतेन योषामु रेतो निक्षेपरूपेण यज्ञेन प्राणिन उत्पद्यन्ते । भूमौ
वृष्टिरूपसोमाहुतिरूपेण यज्ञेन तृणवृक्षाद्युत्पत्तिः । क्षेत्रेषु बीजाहुतिभिर्यव
गोधूमादय उत्पद्यन्ते इत्याद्यप्यपास्तम्, पारम्पर्योक्तिविरोधात् ।
गीतायां भगवता यज्ञस्य प्रभूतं माहात्म्यमुक्तम्—
'सह यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोस्त्विष्ट कामधुक् ॥
देवान् भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥'
यज्ञः कथं कुतः संभवति किञ्च तस्य फलमित्याकाङ्क्षायामुक्तं
भगवता—पर्जन्याद्युत्पादकोऽदृष्टरूपो यज्ञः कर्मसमुद्भवः । कर्माऽपि न
सर्वं किन्तु ब्रह्मसमुद्भवम् । ब्रह्मपदेनानादिमन्त्रब्राह्मणात्मको वेदराशि-
र्विवक्षितः । तथा च वेदोद्योधिताग्निहोत्रदर्शपूर्णमासचातुर्मास्य-
ज्योतिष्टोमादिलक्षणं कर्मैव यज्ञस्य कारणम् । ब्रह्म चाक्षरसमुद्भवम् ।
अक्षरमत्र परमेश्वरस्तत एव वेदस्य प्रादुर्भावः । 'एतस्यैवाक्षरस्य प्रशासने
गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' इत्यादावक्षरपदेन सर्वप्रशास-
कस्य परमेश्वरस्यैव ग्रहणात् । 'वेदो महतो भूतस्य निःश्वसितरूप
इत्यपि श्रुतिषु स्फुटम् । अनेन वैदिकविज्ञानवादिनां वेदबोधित कर्म
तज्जन्यादृष्टभिन्नेषु प्राकृतादिघटनात्मकेषु यज्ञत्वव्यवहारः, वेदस्य
मनुष्यनिर्मित्वादिकं च खण्डितं भवति । वेदबोधितकर्तव्यताकस्यास्यैव
मुख्ययज्ञस्यारोपाज्जपसंयमप्राणायामस्वाध्यायब्रह्मज्ञानादिष्वपि यज्ञत्व-
व्यवहारः । तदुक्तम्—
पृष्ठ २७३
वेदस्वरूप-विमर्शः २७३
"एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान् विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे । (गा. भा.)
यदपि—"अग्निर्वा आपो योषा गार्हपत्यं गृहं प्रतिष्ठा अपां प्रणेता
यज्ञस्योल्का तेन लब्धप्रतिष्ठेन भाव्यमाहवनीयस्योत्तरेण प्रतिष्ठा ।
यद्यपि अत्र मिथुनेन यज्ञः प्रजायते, मध्ये गमने मिथुनविच्छेदः,
तस्मान्न गन्तव्यम्, तयोरवस्थितिर्नातिदूरे, नाति समीपे, सामीप्ये
सङ्कोचादवस्थितदुपस्पर्शनेन ऋत्विक्षु तद्भावावेशो दूरस्थापने मिथुनानु-
त्पत्तिः प्रागोऽध्वर्युस्तेनैव तत्प्रेरणया मनो ब्रह्मकर्मसम्पत्तिः ।
'यज्ञमपः प्रणेण्यामि' 'यजमानवाचं यच्छ' 'प्रणय यज्ञं' 'देवता वर्धयध्वं'
नाकस पृष्ठे यजमानोऽस्तु प्रणय, अध्वर्युराहवनीयस्योत्तरं गत्वा
कस्यैवा युनक्ति स त्वा युनक्ति निदधाति पूर्वम्, अपां प्रणयनेन अतो अपां
नियमनेन संवत्सररूपो यज्ञो भवति । अत एव प्राकृतयज्ञे पूर्वत्र परत्र च
जलं भवति । 'यज्ञो वा आप' इति श्रुतिः । परा प्रकृतिरक्षरः, अपरा
प्रकृतिः क्षरः, अव्ययश्चात्मा । सर्वेऽपि पञ्च पञ्च कलाः । तदेतत् त्रयं
सवैंकः । अयमात्मा । आत्मा एकः संन्नेतत् त्रयम् । 'तदेतदमृतं सत्येन
छन्नम्' स षोडशी । तत्र क्षरभागस्योपादानत्वाद्विश्वस्यात्मोपादान-
मुच्यते । अक्षरात्मना निमित्तव्यपदेशरूपेणाधिष्ठानत्वम् । आत्मैवेदं सर्वं
क्षराक्षरयोस्तादात्म्यात्तच्छ्रव्यम् न्यायेन पुरुषत्वमुभयत्र । क्षरस्य प्राण
आप वाक् अन्नं अन्नादेति पञ्च कलाः। अन्नान्नादयोरेकत्वात्तस्य चतु-
र्मुखत्वम् । अक्षररूपो ब्रह्माक्षररूपैश्चतुर्मुखैः सृष्टिं करोति प्राणेन वेदम्,
आपो मुखेन लोकम्, वाङ्मुखेन देवान्, अन्नान्नादमुखेन भूतसृष्टिः,
अथवा वाङ्मुखेन प्रजासृष्टिः, तेन क्रमेण वेदलोकप्रजाधर्मांणामुत्पत्तिः ।
प्राणश्च रूप-रस-गन्ध स्पर्श-शब्द शून्यमथामच्छन्दम् नीरूपतत्व-
विशेषः । सचानन्तः ऋषिरसच्छन्दवाच्यम् । प्राणोऽसङ्घः सृष्टिंश्च
सङ्गमृत्तिका ग्रन्थिबन्धनयुक्तसंसर्गः सृष्टिः" तदपि न किञ्चित् सायणा-
दिभिरप्युपपन्नंशस्य स्वभाव्ये वर्णनात् । परं प्राकृतो यज्ञः तस्यानुकृति-
बैधो यज्ञ इत्यस्य निष्प्रमाणकत्वमुक्तमेव । अद्भ्यः पृथिवी इति श्रुत्या
वे० वि०—१८