सामग्री पर जाएँ
सर्वकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 144, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 144

२६२ वेदस्वरूप-विमर्शः
व्याख्यातत्वात् । तदेतत्सर्वं येन स्वप्नं पश्यति अथ योऽयं शरीर उपद्रष्टा
स क्षेत्रज्ञास्तावेतो सत्त्वक्षेत्रज्ञाविति सर्वमेतच्छङ्करभाष्ये समुद्धतमिति
तत्रैव कण्हेत्यालोचनीयम् । रुचं ब्राह्ममित्यादिमंत्रस्य त्वयमर्थः- देवा
दीप्यमानाः प्राणाः योगिनो वा रुचं शोभनं देदीप्यमानं वा ब्राह्मं ब्रह्मण
उत्पन्नमादित्यं जनयन्तः सृष्ट्यर्थं अग्रे प्रथमं तत् वचो अब्रुवन् तकिमत
आह-यो ब्राह्मणः हे आदित्य त्वां त्वामेवमुक्तविधिना उत्पन्नं विद्यात्
जानीयात् तस्य ब्राह्मणस्य देवा वशे असन् वश्या भवन्ति । आदित्यो-
पासिता जगत्पूज्यो भवतीत्यर्थः । यत्तु 'तस्य देवा असन् वशे' इत्यने-
नेन्द्रियरूपाणां देवानां वशीकारो मनोरूपेण सम्भृताया ब्राह्मयाविज्ञानेन
महति'त्युच्यते तन्न तस्यार्थस्य मन्त्रार्थबाह्यत्वात् । ब्रह्मणोऽपत्यभूतस्या-
दित्यस्यैव ब्राह्मणरुत्वोक्तेः । नहीन्द्रियलक्षणैर्देवैर्मनोरूपेण काचिद् ब्राह्मी-
रुक् प्रसिद्धा, यस्यां चिदात्मनो विकासो भवेत् । किञ्च विकासो नामा-
भिव्यक्तिरुत्पत्तिर्वा ? नान्त्यः चिदात्मनो नित्यत्वान्निर्विकारत्वाच्च ।
नाद्यः चिदात्मनो मनस्यभिव्यक्तेरङ्गीकारेऽपि मनस इन्द्रियरूपैर्देवैः
संभृतत्वाभावात् तस्माद्यथोक्त एव मन्त्रार्थः ।
यच्चोक्तम्-चिदात्मनः परमात्मनः सम्बन्धे च श्रीश्च लक्ष्मीश्च
जीवे प्रादुर्भबत इति षष्ठी सप्तमी च श्रिया लक्ष्म्याश्चाहुती षष्ठेन
मंत्रेणाऽम्नायेते-
'श्रीश्च लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् ।
इष्णन्निषाण । मुं म इषाण । सर्वलोकम्म इषाण । ३१।२२ इति ।
ताभ्यामाहुतिभ्यां श्रीमदूर्जितञ्च जीवात्मनः स्वरूपं सम्पद्यते ।
अनयोरेवोत्कर्षे विभूतिरूपता अंशावतारता च तेषां व्याख्याता ।
'यद् यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोऽशसंभवम् ।।'
इत्थं सप्तभिराहुतिभिर्जीवसम्पत्तिरुक्ता ।” इति तदपि न,
मंत्रेऽस्मिन्नाहुतेरवर्णनात् । चिदात्मनः परमात्मनः सबन्धे श्रिया
लक्ष्म्या जीवे प्रादुर्भाव इत्यस्य मंत्रार्थत्वाभावात् । महीधररी-
त्यात्वयं मन्त्रार्थः- 'ऋषिरादित्यं श्रुत्वा प्रार्थयते हे आदित्य


वेदस्वरूप-विमर्शः २६३
श्रीश्च लक्ष्मीश्च ते जायास्थानीये त्वद्भार्ये, यया सर्वजनाश्रयोयो भवति
सा श्रीः । श्रीयतेऽनया श्रीः संपदित्यर्थः । यया लक्ष्यते दृश्यते जनैः सा
लक्ष्मीः सौन्दर्यमित्यर्थः । आदित्यवश्यत्वादुभे भार्या स्थानीये तस्य । यद्वा
सवितृमण्डलमध्यवर्तिनः सरसिजासनसंनिविष्टस्य नारायणस्य द्वे अपि ते
पत्न्यौ, पुराणादिषु तत्पोपक्रमणास्य बाहुल्योपलब्धेः । नक्षत्राणि गगन-
तारास्तव रूपम् । तवैव तेजसा भासमानत्वात् । 'तेजसो गोलकः सूर्य्यः,
नक्षत्राण्यम्बुगोलकाः' इति ज्योतिःशास्त्रोक्तेः' । अश्विनौ द्यावापृथिव्यौ
तव व्यात्तं विकसितमुखस्थानीये । अश्नुवात व्याप्नुवतौ अश्विनौ द्यावा
पृथिव्यौ 'इमे ही तैः सर्वमश्नुवाताम्' इति श्रुतेः । य ईदृशस्तं त्वां
याचे । इष्णन् कर्मफलमिच्छन् सन् । इषाण इच्छ किमेषणीयं तत्राह-
अमुं परलोकं मे मम इषाण मम परलोकः समीचीनोऽस्त्वितीच्छ ।
अमोधेच्छत्वाद्विष्टं भवतीत्यर्थः । सर्वं मे मम इषाण सर्वलोकात्मकोऽहं
भवेयमितीच्छेत्यर्थः । मुक्तो भवेयमित्यर्थः । 'सर्वं खल्विदं ब्रह्म'ति
श्रुतेः ।
यदुक्तम् “सृष्ट्यादौ पुरुषत्रयप्रादुर्भावः संसारमूलभूतानां मनः
प्राणवाचां परस्परमुत्तरोत्तरीभावश्च सर्वं एव यज्ञकृतः तत्र तत्र व्याख्या-
यते । क्षरपुरुषकलानाञ्च प्राणवागन्नान्नानां परस्परं पञ्चीकरणं पुरुषसूक्ते
सर्वहुद्यज्ञनाम्ना विवृतम् । आदौ च सामग्र्यभावे पुरुषावयवैरेव यज्ञः
सम्पादित इत्यपि तत्रोक्तम् । देवा यज्ञं तन्वाना अवध्नन् पुरुषं पशु-
मिति” । तत्रोच्यते यद्यपि यज्ञस्य प्रपञ्चहेतुत्वमुपपद्यते तथापि वेदविहित-
यज्ञस्यैव मानसत्वादि भेदेन तत्तद्धेतुत्वोपपत्तेः । पुरुषमेधाख्यो यज्ञोऽपि
तादृश एव । सर्वहुदाख्यो यज्ञोऽपि तादृश एव । निरुक्तपरिशिष्टा-
नुसारेणानुप्रेरतपसस्तेमन्त्रार्थाज्ञानं दुष्करमिति श्रेयोऽविद्वातकामैर्ऋषि-
निर्दिष्टीत्येव मन्त्रार्थः कर्तव्य इति श्रौतसूत्रकारैरनुक्रमणीकारैर्येषां
मंत्राणां नारायणदृष्टयोर्द्वयोस्त्रैशैस्त्रिंशयोरध्याययोः पुरुषमेधयज्ञ
उक्तः, तस्य निर्वचनम् । अथ यस्मात् पुरुषमेधो नानेमे वै लोकाः पूरणमेव
पुरुषः योऽयं पवते सोऽस्यां पुरि शेते तस्मात्पुरुषः तस्य यदेषु लोकेष्वन्नं
मेधः तस्मात्पुरुषमेधः । 'नारायणपुरुषद्दष्टा जगद्वीजपुरुषदेवत्या षोडश