वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 78, कुल 465 में से
संदर्भ में पढ़ें[अ० २४ श्लो० ३७-५७] वायुपुराणम् । ६९
( शार्वस्तव )
शीघ्रं विक्रमदस्तस्य पद्मञ्चाम्यन्तपीडितः । उद्भूतास्तूर्णमाकाशे पृथुलास्तोयगिन्दवः ॥
अत्युष्णाश्चातिशीताश्च वायुस्तत्र ववौ भृशम् ॥ ३७
तद्दृष्ट्वा महदाश्चर्यं ब्रह्मा विष्णुमभाषत । अब्बिन्दवो हि स्थूलोष्णाः कम्पते चाम्बुजं भृशम्
एतं मे संशयं ब्रूहि किंचान्यच्चेषं चिकीर्षसि ॥ ३८
एतदेवंविधं वाक्यं पितामहमुखोद्भवम् । श्रुत्वाऽप्रतिमकर्माऽऽह भगवान्सुरान्तकृत् ॥ ३९
किं नु खल्वत्र मे नाभ्यां भूतमन्यत्कृतालयम् । वदति प्रियमत्यर्थं विप्रियेऽपि च ते मया ॥ ४०
इत्येवं मनसा ध्यात्वा प्रत्युवाचेदमुत्तरम् । किं न्वत्र भगवांस्तस्मिन्पुष्करे जातसंभ्रमः ॥ ४१
किं मया यत्कृतं देव यन्मां प्रियमनुत्तमम् । भाषसे पुरुषश्रेष्ठ किमर्थं ब्रूहि तत्त्वतः ॥ ४२
एवं ब्रुवाणं देवेशं लोकमात्रां तु तत्त्वगाम् । प्रत्युवाचाम्बुजाभास्कः ब्रह्मा वेदनिधिः प्रभुः ॥ ४३
योऽसौ तवोदरं पूर्वं प्रविष्टोऽहं त्वदिच्छया । यथा ममोदरे लोकाः सर्वे दृष्टास्त्वया प्रभो ।
तथैव दृष्टाः कार्त्स्न्येन मया लोकास्तवोदरे ॥ ४४
ततो वर्षसहस्रान्त उपावृत्तस्य मेऽनव । नूनं मत्सरभावेन मां वशीकर्तुमिच्छता ॥
आशु द्वाराणि सर्वाणि घटितानि त्वया पुनः ॥ ४५
ततो मया महाभाग संचिन्त्य स्वेन चेतसा । लब्धो नाभ्यां प्रवेशस्तु पद्मसूत्राद्विनिर्गमः ॥ ४६
मा भूत्ते मनसोऽल्पोऽपि व्याघातोऽयं कथंचन । इत्येषाऽनुगतिर्विष्णोः कार्याणामौपसर्गिकौ ॥ ४७
यन्मयाऽनन्तरं कार्यं मयाऽध्यवसितं त्वयि । त्वां वा बाधितुकामेन क्रीडापूर्वं यदृच्छया ॥
आशु द्वाराणि सर्वाणि घटितानि मया पुतः ॥ ४८
न तेऽन्यथाऽवमन्तव्यो मान्यः पूज्यश्च मे भवान् । सर्वं मर्षय कल्याण यन्मयाऽथ कृतं तव ॥
तस्मान्मयोच्यमानस्त्वं पद्मादवतर प्रभो ॥ ४९
नाहं भवन्तं शक्नोमि सोढुं तेजोमयं गुरुम् । स चोवाच वरं ब्रूहि पद्मादवतराम्यहम् ॥ ५०
विष्णुरुवाच--
पुत्रो भव ममारिघ्न मुदं प्राप्स्यसि शोभनाम् । सत्यधनो महायोगी त्वमडिचः प्रणवात्मकः ॥ ५१
अद्यप्रभृति सर्वेश श्वेतोष्णीषाविभूषणः । पद्मयोनिरितीत्येवं ख्यातो नाम्ना भविष्यसि ॥
पुत्रो मे त्वं भव ब्रह्मन्सर्वलोकाधिप प्रभो ॥ ५२
ततः स भगवान्ब्रह्मा वरं गृह्य किरीटिनः । एवं भवतु चेत्युक्त्वा प्रीतात्मा गतमत्सरः ॥ ५३
प्रत्यासन्नमथाऽऽयान्तं बालार्कभं महाननम् । भूतमत्यद्भुतं दृष्ट्वा नारायणमथाब्रवीत् ॥ ५४
अप्रमेयो महावक्त्रो दंष्ट्री व्यस्तशिरोरुहः । दशबाहुस्त्रिशूलाङ्को नयनैर्विश्वतोमुखः ॥ ५५
लोकप्रभुः स्वयं साक्षाद्विकृतो मुञ्जमेखली । मेढ्रेणोधर्वेन महता नदमानोऽतिभैरवम् ॥ ५६
कः खल्वेष पुमान्विष्णो तेजोराशीर्महाद्युतिः । व्याप्य सर्वा दिशो द्यां च इत एवाभिवर्तते ॥ ५७