सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 77, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 77

६८ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० २४ श्लो० १३-३६]
(शार्वस्तवः)

शतयोजनविस्तीर्णं तरुणादित्यवर्चसम् । वज्रदण्डं महोत्सेधं लीलया प्रभविष्णुना ॥ १३
तस्यैवं क्रीडमानस्य समीपं देवमीढुषः । हेमब्रह्माण्डजो ब्रह्मा रुक्मवर्णो ह्यतीन्द्रियः ॥
चतुर्मुखो विशालाक्षः समागम्य यदृच्छया ॥ १४
श्रिया युक्तेन नव्येन सुप्रभेण सुगन्धिना । तं क्रीडमानं पद्मेन दृष्ट्वा ब्रह्मा तु भेजिवान् ॥ १५
स विस्मयमथाऽऽगम्य श्लक्ष्णसम्पूर्णया गिरा । प्रोवाच को भवांश्शेते आश्रितो मध्यमम्भसाम् ॥ १६
अथ तस्याच्युतः श्रुत्वा ब्रह्मज्ञस्तु शुभं वचः । उदतिष्ठत पर्यङ्काद्विस्मयोत्फुल्ललोचनः ॥ १७
प्रत्युवाचोत्तरं चैव क्रियते यच्च किंचन । द्यौरन्तरिक्षं भूश्चैव परं पदमहं प्रभुः ॥ १८
तमेवमुक्त्वा भगवान्विष्णुः पुनरथाब्रवीत् । कस्त्वं खलु समायातः समीपं भगवान्कुतः ॥
कुतश्च भूयो गन्तव्यं कुत्र वा ते प्रतिश्रयः ॥ १९
को भवान्विधमूर्त्तिस्त्वं कर्तव्यं किं च ते मया । एवं ब्रुवाणं वैकुण्ठं प्रत्युवाच पितामहः ॥ २०
यथा भवांस्तथा चाहमादिकर्त्ता प्रजापतिः । नारायणसमाख्यातः सर्वं वै मयि तिष्ठति ॥ २१
सविस्मयं परं श्रुत्वा ब्रह्मणा लोककर्तृणा । सोऽनुज्ञातो भगवता वैकुण्ठो विश्वसंभवः ॥ २२
कौतूहलान्महायोगी प्रविष्टो ब्रह्मणो मुखम् । इमानष्टादश द्वीपान्ससमुद्रान्सपर्वतान् ॥ २३
प्रविश्य स महातेजाश्चातुर्वर्ण्यसमाकुलान् । ब्रह्मादिस्तम्बपर्यन्तान्सप्तलोकान्सनातनान् ॥ २४
ब्रह्मणस्तूदरं दृष्ट्वा सर्वान्विष्णुर्महायशाः । अहोऽस्य तपसो वीर्यं पुनः पुनरभाषत ॥ २५
पर्यटन्विविधाँल्लोकान्विष्णुर्नानाविधाश्रमान् । ततो वर्षसहस्रान्ते नान्तं हि ददृशे तदा ॥ २६
तदाऽस्य वक्त्रान्निष्क्रम्य पन्नगेन्द्रादिकेतनः । अजातशत्रुर्गर्भगवान्पितामहमथाब्रवीत् ॥ २७
भगवन्नादिमध्यं च अन्तः कालादिशे न च । नाहमन्तं प्रपश्यामि ह्युदरस्य तवानघ ॥ २८
एवमुक्तवाऽब्रवीद्भूयः पितामहमिदं हरिः । भवानप्येवमेवाद्य ह्युदरं मम शाश्वतम् ॥
प्रविश्य लोकान्पश्यैताननौपम्यानद्विजोत्तम ॥ २९
मनःप्रह्लादनीं वाणीं श्रुत्वा तस्याभिनन्द्य च । श्रीपतेरुदरं भूयः प्रविवेश पितामहः ॥ ३०
तानेव लोकान्गर्भस्थः पश्यन्सोऽचिन्त्यविक्रमः । पर्यटित्वाऽऽदिदेवस्य ददर्शान्तं न वै हरेः ॥ ३१
ज्ञात्वाऽऽगमं तस्य पितामहस्य द्वाराणि सर्वाणि विधाय विष्णुः ।
विभुर्मनः कर्तुमियेष चाऽऽशु सुखं प्रसुप्तोऽस्मि महाजलौघे ॥ ३२
ततो द्वाराणि सर्वाणि पिहितान्युपलक्ष्य ते । सूक्ष्मं कृत्वाऽऽत्मनो रूपं नाभ्यां द्वारमविन्दत ॥
पद्मसूत्रानुमार्गेण ह्यनुगम्य पितामहः । उज्जहाराऽऽत्मनो रूपं पुष्कराच्चतुराननः । ३३
विरराजारविन्दस्थः पद्मगर्भसमद्युतिः ॥ ३४
एतस्मिन्नन्तरे ताभ्यामेकैकस्य तु कार्त्स्न्यतः । प्रवर्त्तमाने संहर्षे मध्ये तस्यार्णवस्य तु* ॥ ३५

सूत उवाच-
ततो ह्यपरिमेयात्मा भूतानां प्रभुरीश्वरः । शूलपाणिर्महादेवो हेमचीराम्बरच्छदः ॥
आगच्छद्यत्र सोऽनन्तो नागभोगपतिर्हरिः ॥ ३६


* अस्मिन्स्थलेऽध्यायपरिसमाप्तिर्दृश्यते ख. घ. ङ. पुस्तकेषु ।