सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 73, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 73

६४ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० २३ श्लो० १४३-१७२]
(माहेश्वरावतारयोगः।)

परिवर्तेऽथ नवमे व्यासः सारस्वतो यदा । तदा चाहं भविष्यामि ऋषभो नाम नामतः ॥ १४३
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः । पराशरश्च गार्ग्यश्च भार्गवो ह्यङ्गिरास्तथा ॥ १४४
भविष्यन्ति महात्मानो ब्राह्मणा वेदपारगाः । सर्वे तपोबलोत्कृष्टाः शापानुग्रहकोविदाः ॥ १४५
तेऽपि तेनैव मार्गेण योगोक्तेन तपस्विनः । ध्यानमार्गं समासाद्य गमिष्यन्ति तथैव ते ॥ १४६
दशमे द्वापरे व्यासस्त्रिधामा नाम नामतः । भविष्यति यदा विप्रास्तदाऽहं भविता पुनः ॥ १४७
हिमवच्छिखरे रम्ये भृगुतुङ्गे नगोत्तमे । नाम्ना भृगोस्तु शिखरे तस्मात्तच्छिखरं भृगुः ॥ १४८
तत्रैव मम ते पुत्रा भविष्यन्ति दृढव्रताः । बलवन्धुर्निर्रा(र)मित्रः केतुशृङ्गस्तपोधनः ॥ १४९
योगात्मानो महात्मानो ध्यानयोगसमन्विताः । रुद्रलोकं गमिष्यन्ति तपसा दग्धकल्मषाः ॥ १५०
एकादशे द्वापरे तु तिष्ठन्ध्यासो भविष्यति । तदाऽप्यहं भविष्यामि गङ्गाद्वार कलेर्धुरि ॥ १५१
उग्रा नाम महानादास्तत्रैव मम पुत्रकाः । भविष्यन्ति महौजस्काः सुवृत्ता लोकविश्रुताः ॥ १५२
लम्बोदरश्च लम्बश्च लम्बाक्षो लम्बकेशकः । प्राप्य माहेश्वरं योगं रुद्रलोकाय संस्थिताः ॥
तेऽपि तेनैव मार्गेण गमिष्यन्ति परां गतिम् ॥ १५३
द्वादशे परिवर्ते तु शततेजा महामुनिः । भविष्यति महासत्त्वो व्यासः कविवरोत्तमः ॥ १५४
ततोऽप्यहं भविष्यामि अत्रिर्नाम युगान्तिके । हैमकं वनमासाद्य योगमास्थाय भूतले ॥ १५५
अत्रापि मम ते पुत्रा भस्मस्नानानुलेपनाः । भविष्यन्ति महायोगा रुद्रलोकपरायणाः ॥ १५६
सर्वज्ञाः समबुद्धिश्च साध्यः सर्वस्तथैव च । रुद्रलोकं गमिष्यन्ति ध्यानयोगपरायणाः ॥ १५७
त्रयोदशे पुनः प्राप्ते परिवर्ते क्रमेण तु । धर्मो नारायणो नाम व्यासस्तु भविता यदा ॥ १५८
तदाऽप्यहं भविष्यामि वालिर्नाम महामुनिः । वालि(ल)खिल्याश्रमे पुण्ये पर्वते गन्धमादने ॥ १५९
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः । सुधामा काश्यपश्चैव वसिष्ठो विरजास्तथा ॥ १६०
महायोगाबलोपेता विमला ऊर्ध्वरेतसः । तेनैव योगमार्गेण गमिष्यन्ति न संशयः ॥ १६१
यदा व्यासः सुरक्षस्तु पर्यायश्च चतुर्दशे । तत्रापि पुनरेवाहं भविष्यामि युगान्तिके ॥ १६२
वंशे त्वङ्गिरसः श्रेष्ठो गौतमो नाम योगवित् । तस्माद्भविष्यते पुण्यं गौतमं नाम तद्वनम् ॥ १६३
तत्रापि नाम ते पुत्रा भविष्यन्ति कलौ तथा । अत्रिरुग्रतपाश्चैव श्रावणोऽथ सविष्ठ(ष्ठ)कः॥ १६४
योगात्मानो महात्मानो ध्यानयागपरायणाः । तेऽपि तेनैव मार्गेण रुद्रलोकानिवासिनः ॥ १६५
ततः प्राप्ते पञ्चदशे परिवर्ते क्रमागते । आरुणिस्तु यदा व्यासो द्वापरे भविता प्रभुः ॥ १६६
तदाऽप्यहं भविष्यामि नाम्ना वेदशिरा द्विजाः । तत्र वेदशिरा नाम अग्रं तत्पारमेश्वरम् ॥ १६७
भविष्यति महावीर्यं वेदशीर्षंश्च पर्वतः । हिमवत्पृष्ठमाश्रित्य सरस्वत्या नगोत्तमे ॥ १६८
तदाऽपि मम ते पुत्रा भविष्यन्ति तपोधनाः । कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥ १६९
योगात्मानो महात्मानो बलिष्ठाश्चोर्ध्वरेतसः । तेऽपि तेनैव मार्गेण रुद्रलोकं गतास्तु ते ॥ १७०
ततः षोडशमे चापि परिवर्ते क्रमागते । व्यासस्तु संजयो नाम भविष्यति तदा प्रभुः ॥ १७१
तदाऽप्यहं भविष्यामि गोकर्णो नाम नामतः । [*तस्माद्भविष्यते पुण्यं गोकर्णं नाम तद्वनम् ॥ १७२


* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।