सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 72, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 72

[अ० २३ श्लो० ११५-१४२] वायुपुराणम् ६३

(माहेश्वरावतारयोगः । )

तदा चतुर्युगावस्थे कल्पे तस्मिन्युगान्तके । भविष्यामि शिखायुक्तः श्वेतो नाम महामुनिः ॥ ११५
हिमवच्छिखरे रम्ये छागले पर्वतोत्तमे । चतुःशिष्या शिवं युक्ता भविष्यन्ति तदा मम ॥ ११६
श्वेतश्चैव शिखश्चैव श्वेताश्वः श्वेतलोहितः । चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः ॥ ११७
ततस्ते ब्रह्मभूयिष्ठा दृष्ट्वा ब्रह्मगतिं पराम् । तत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभाम् ॥ ११८
पुनस्तु मम देवेशो द्वितीयद्वापरे प्रभुः । प्रजापतिर्यदा व्यासः सत्यो नाम (*भविष्यति ॥ ११९
तदा लोकहितार्थाय सुतारो नाम नामतः । भविष्यामि कलौ तस्मँल्लोकानुग्रहकारणात् ॥ १२०
तत्रापि मम ते पुत्रा भविष्या नाम नामतः । ) दुन्दुभिः शतरूपश्च ऋचीकः केतुमांस्तथा ॥ १२१
प्राप्य योगं तथा ज्ञानं ब्रह्म चैव सनातनम् । रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ १२२
तृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः । तदा साहं भविष्यामि दमनस्तु युगान्तिके ॥ १२३
तत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः । विशोकश्च विकेशश्च विशापः शापनाशनः ॥ १२४
तेऽपि तेनैव मार्गेण योगोक्तेन महौजतः । रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ १२५
चतुर्थे द्वापरे चैव यदा व्यासोऽङ्गिराः स्मृतः । तदाऽप्यहं भविष्यामि सुहोत्री नाम नामतः ॥
तत्रापि मम सत्पुत्राश्चत्वारश्च तपोधनाः ॥ १२६
भविष्यन्ति द्विजश्रेष्ठा योगात्मानो दृढव्रताः । सुमुखो दुर्मुखश्चैव दुर्दम्यो दुरतिक्रमः ॥ १२७
प्राप्य योगगतिं सूक्ष्मां विमला दग्धकिल्बिषाः । तेऽपि तेनैव मार्गेण गमिष्यन्ति न संशयः ॥ १२८
पञ्चमे द्वापरे चैव व्यासस्तु सविता यदा । तदा चापि भविष्यामि कङ्को नाम महातपाः ॥ १२९
अनुग्रहार्थं लोकानां योगात्मा नैककर्मकृत् । चत्वारस्तु महाभागा विरजाः शुद्धयोनयः ॥ १३०
पुत्रा मम भविष्यन्ति योगात्मानो दृढव्रताः । सनः सनन्दनश्चैव प्रभुरूर्ध्वस्य सनातनः ॥ १३१
ऋतुः सनत्कुमारश्च निर्मला निरहंकृताः । मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ १३२
परिवर्ते पुनः षष्ठे मृत्युर्व्यासो यदा विभुः । तदाऽप्यहं भविष्यामि लोकाक्षर्नाम नामतः ॥ १३३
शिष्याश्च मम ते दिव्या योगात्मानो दृढव्रताः । भविष्यन्ति महाभागाश्चत्वारो लोकसंमतः ॥ १३४
सुधामा विरजश्चैव शङ्खपादव एव च । योगात्मानो महात्मानस्ते सर्वे दग्धकिल्बिषाः ॥ १३५
तेऽपि तेनैव मार्गेण गमिष्यन्ति न संशयः । सप्तमे परिवर्ते तु यदा व्यासः शतक्रतुः ॥ १३६
विभुर्नाम महातेजाः पूर्वमासीच्छतक्रतुः । तदाऽप्यहं भविष्यामि कलौ तस्मिन्युगान्तिके ॥ १३७
नैगिषव्येति विख्यातः सर्वेषां योगिनां वरः । तत्रापि मम त पुत्रा भविष्यन्ति युगे तदा ॥ १३८
सारस्वतः सुमेधश्च वसुवाहः सुवाहनः । तेऽपि तेनैव मार्गेण ध्यानयुक्तिं समाश्रिताः ॥ १३९
भविष्यन्ति महात्मानो रुद्रलोकपरायणाः । वसिष्ठश्चाष्टमे व्यासः + ( परिवर्ते भविष्यति ॥ १४०
कपिलश्चाऽऽसुरिश्चैव तथा पञ्चशिखो मुनिः । वाग्वालिश्च महायोगी सर्व एव महौजसः । ) ॥ १४१
प्राप्य माहेश्वरं योगं ध्यानिनां दग्धकल्मषाः । मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ १४२


* धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।