वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 348, कुल 465 में से
संदर्भ में पढ़ें[अ० ९३ श्लो० ५१-७५] वायुपुराणम् । ३३९
(चंद्रवंशवर्णनम)
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह । एवं वर्षसहस्रं तु चरेयं यौवनेन ते ॥ ५१
अनुरुवाच--
जीर्णः शिशुरहं तात जरया ह्यशुचिः सदा । न भजामि महाराज तां जरां नाभिकामये ॥ ५२
ययातिरुवाच--
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । जरादोषस्तवयोकोऽयं तस्मात्ते प्रतिपत्स्यते ॥ ५३
प्रजा च यौवनं प्राप्ता विनाशिष्यत्यतस्तव । अभिम्रस्कन्दनपरस्त्वं चाप्येव भविष्यसि ॥ ५४
पुरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह । जरावली च मां तात पलितानि च पर्यगुः ॥ ५५
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने । कंचित्कालं चरेयं वै विषयान्वयसा तव ॥ ५६
पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम् । स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥ ५७
सूत उवाच--
एवमुक्तः प्रत्युवाच पुत्रः पितरमञ्जसा । यथाऽनुमन्यसे तात करिष्यामि तथैव च ॥ ५८
प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह । गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ॥ ५९
जरयाऽहं प्रतिच्छन्नो वयोरूपधरस्तव । यौवनं भवते दत्त्वा चरिष्यामि यथार्थवत् ॥ ६०
ययातिरुवाच--
पुरो प्रीतोऽस्मि भद्रं ते प्रीतश्चेदं ददामि ते । सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति + ॥ ६१
सूत उवाच--
पुरोरनुमतो राजा ययातिः स्वां जरां ततः । संक्रामयामास तदा प्रसादाद्भार्गवस्य तु ॥ ६२
यौवनेनाथ वयसा ययातिर्नहुषात्मजः । प्रीतियुक्तो नरश्रेष्ठश्चार विषयान्स्वकान् ॥ ६३
यथाकामं यथोत्साहं यथाकालं यथासुखम् । धर्माविरोधाद्राजेन्द्रो यथाऽर्हति स एव हि ॥ ६४
देवानतर्पयद्यज्ञैः पितृञ्छ्राद्धैस्तथैव च । दीनांश्चानुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥ ६५
अतिथीन्नन्नपानैश्च वैश्यांश्च परिपालनैः । आनृशंस्येन शूद्रांश्च दस्युन्सन्नियहेण च ॥ ६६
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् । ययातिः पालयामास साक्षादिन्द्र इवापरः ॥ ६७
स राजा सिंहविक्रान्तो युवा विषयगोचरः । अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥ ६८
स मार्गमाणः कामाना मन्तदोषनिदर्शनात् । विश्वाच्या सहितो रेमे वैभ्राजे नन्दने वने ॥ ६९
अपश्यत्तत्स यदा तां वै वर्धमानां नृपस्पृहा । गत्वा पुरोः सकाशं वै स्वं जरां प्रत्यपद्यत ॥ ७०
स संप्राप्य तु तान्कामांस्तृप्तः खिन्नश्च पार्थिवः । कालं वर्षसहस्रं वै सस्मार मनुजाधिपः ॥ ७१
परिसंख्याय कालं च कलाकाष्ठास्तथैव च । पूर्णं मत्वा ततः कालं पुरुं पुत्रमुवाच ह ॥ ७२
यथासुखं यथोत्साहं यथाकालमरिंदम । सेविता विषयाः पुत्र यौवनेन मया तव ॥ ७३
पुरो प्रीतोऽस्मि भद्रं ते गृहाण त्वं स्वयौवनम् । राज्यं च त्वं गृहाणेदं त्वं हि मे प्रियकृत्सुतः ॥
प्रतिपेदे जरां राजा ययातिर्नहुषात्मजः । यौवनं प्रतिपेदे च पुरुः स्वं पुनरात्मनः ॥ ७५
+ अत्राध्यायसमाप्तिः ख. पुस्तके ।