सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 347, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 347

३३८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ९३श्लो० २९-५०]
( चन्द्रवंशवर्णनम् )

जरावली च मां तात पलितानि च पर्यगुः । काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥ २९
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह । जरां मे प्रतिगृह्णीष्व तं यदुः प्रत्युवाच ह ॥ ३०
अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता । सा च व्यायामसाध्या वै न ग्रहीष्यामि ते जराम् ॥ ३१
जराया बहवो दोषा यानभोजनकारिणः । तस्माज्जरां न ते राजन्गृहीतुमहमुत्सहे ॥ ३२
सितश्मश्रुधरो दीनो जरया शिथिलीकृतः । वलीसंततगात्रश्च दुर्दर्शो दुर्बलाकृतिः ॥ ३३
अशक्तः कार्यकरणे परिभूतस्तु यौवने । महोपभीतिभिश्चैव तां जरां नाभिकामये ॥ ३४
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप । प्रतिगृह्णन्तु धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥ ३५
स एवमुक्तो यदुना तीव्रकोपसमन्वितः । उवाच वदतां श्रेष्ठो ज्येष्ठं तं गर्हयन्सुतम् ॥ ३६
आश्रमः कश्च वाऽन्योऽस्ति को वा धर्मविधिस्तव । मामनादृत्य दुर्बुद्धे यदात्थ नवदेशिक ॥ ३७
एवमुक्त्वा यदुं राजा शशापैनं स मन्युमान् । यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ॥ ३८
तस्मान्न राज्यभाङ्गूढ प्रजा ते वै भविष्यति । तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह ॥ ३९
(*यौवनेन चरेयं वै विषयांस्तव पुत्रक । पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम् ॥
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥ ४०

तुर्वसुरुवाच-
न कामये जरां तात कामभोगप्रणाशिनीम् । जराया बहवो दोषाः पानभोजनकारिणः ॥
तस्माज्जरां न ते राजन्गृहीतुमहमुत्सहे ॥ ४१

ययातिरुवाच-
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्मात्प्रजा समुच्छेद्यं तुर्वसो तव यास्यति ॥ ४२
असंकीर्णा च धर्मेण प्रतिलोमवरेषु च । पिशिताशिषु चान्येषु मूढ राजा भविष्यसि ॥ ४३
गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु वा । पशुधर्मेषु म्लेच्छेषु भविष्यसि न संशयः ॥ ४४

सूत उवाच-
एवं तु तुर्वसुं शप्त्वा ययातिः सुतमात्मनः । शर्मिष्ठायाः सुतं द्रुह्यमिदं वचनमब्रवीत् ॥ ४५
द्रुह्य त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् । जरां वर्षसहस्रं वै यौवनं स्वं ददस्व मे ॥ ४६
पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम् । स्वं चाऽऽदास्यामि भूयोऽहं पाप्मानं जरया सह ॥ ४७

द्रुह्य उवाच-
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् । न सङ्गश्वास्य भवति न जरां तेन कामये ॥ ४८

ययातिरुवाच-
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित् ॥
नौप्लवोत्तरसंचारस्तत्र नित्यं भविष्यति । अराजभ्राजवंशस्त्वं तत्र नित्यं भविष्यसि ॥ ५०


* धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।