सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 301, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 301

२९२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० ७८ श्लो० ३५–५९]
( श्राद्धकल्पः )

ये चान्ये पापकम्माणः सर्व्वास्तान्परिवर्जयेत् । देवदेवर्षिनिंदायां रताश्चैव विशेषतः ॥ ३५
असुरान्यातुधानांश्च दृष्ट्मेभिर्व्रजन्त्युत । ब्राह्मं कृतयुगं प्रोक्तं त्रेता तु क्षत्रिय स्मृतम् ॥
वेश्यं द्वापारमित्याहुः शूद्रं कलियुगं स्मृतम् ॥ ३६

पितर ऊचुः–

वैदाः कृतयुगे पूज्यास्त्रेतायां तु सुरास्तथा । युद्धानि द्वापरे नित्यं पाषण्डाश्च कलौ युगे ॥ ३७
अपमानापवित्रश्च कुक्कुटो ग्रामसूकरः । श्वा चैव दर्शनादेव हन्ति श्राद्धं न संशयः ॥ ३८
शावसूतकसंस्पृष्टो दीर्घरोगिभिरेव च । मलिनैः पतितैश्चैव न द्रष्टव्यं कथंचन ॥ ३९
अन्नं पश्येयुरेते वै नैतस्याद्धव्यकव्ययोः । तत्संस्पृष्टं प्रधानार्थं संस्कारश्चापदो भवेत् ॥ ४०
हविषां संहतानां तु पूर्वमेव विवर्जनम् । मृत्संयुक्ताभिरद्भिश्च प्रोक्षणं च विधीयते ॥ ४१
सिद्धार्थकैः कृष्णतिलैः कार्यं वाऽप्यवकीरणम् । गुरुसूर्याग्निवस्तूनां दर्शनं वाऽपि यत्नतः ॥ ४२
आसनारूढमानेषु पादोपहतमेव च । अमेध्यैर्जङ्गमैर्दृष्टं शुष्कं पर्युषितं च यत् ॥ ४३
अशितं परिदुष्टं च तथैवाग्रावलेहितम् । शर्कराकेशपाषाणैः कीटैर्यच्चाप्युपद्रुतम् ॥ ४४
पिण्याकथथितं चैव तथा तिलमवादिषु । सिद्धाक्षताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः ॥ ४५
वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि । सन्ति वेदविरोधिन केचिद्विज्ञानमानिनः ॥ ४६
अयज्ञपतयो नाम ते श्राद्धस्य यथा रजः । दधि शोकं तथाऽभक्ष्याः शुक्लं चौषं विवर्जितम् ॥ ४७
वार्ताकं वर्जयेद्यात्सर्वानिभिषवानपि । सैन्धवं लवणं यच्च तथा मानससंभवम् ॥ ४८
पवित्रं परमं ह्येतत्प्रत्यक्षमपि वर्तते । अग्नौ निक्षिप्य गृह्णीयाद्धस्तौ प्रक्षिप्य यत्नतः ॥ ४९
गमयेन्मस्तकं चैव ब्रह्मतीर्थं हि तत्स्मृतम् । द्रव्याणां प्रोक्षणं कार्यं तथैवाऽऽवपनं पुनः ॥ ५०
निधाय चाद्भिः सिञ्चेत तथैवाप्सु निवेशनम् । अरिष्टतुमुले बिल्वं विङ्गुद्दश्वदनान्यपि ॥ ५१
विदलानां च सर्वेषां चर्मवच्छौचमिष्यते । तथा दन्तास्थिदारूणां शृङ्गाणां चावेलेखनम् ॥ ५२
सर्वेषां मृन्मयानां तु पुनर्दाह उदाहृतः । मणिवज्रप्रवालानां मुक्ताशङ्खमणेस्तथा ॥ ५३
सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः । स्याच्छौचं सर्वबालानामाविकानां च सर्वशः ॥ ५४
आविकानां च सर्वेषां मृद्भिरद्भिर्विधीयते । आद्यन्तयोस्तु शौचानामाद्भिः प्रक्षालनं पुनः ॥ ५५
तथा कार्पासिकानां च भस्माना समुदाहृतम् । फलपुष्पशलाकानां प्लावनं चाद्भिरिष्यते ॥ ५६
संमार्जनं प्रोक्षणं च भूमेश्चैवावलेपनम् । निष्क्रम्य बाह्यतो ग्रामाद्वायुपूता वसुंधरा ॥ ५७
धनुष्मत्पक्षिणां चैव मृद्भिः शौचं विधीयते । एवमेष समुद्दिष्टः शौचानां विधिरुत्तमः ॥
अतः परं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ ५८
पातर्गृहात्पाश्चिमदक्षिणेन इषुक्षेपं चाक्षमात्रं पदं च ।
कुर्यात्पुरीषं च शिरोऽवगुण्ठच न च स्पृशेत्तत्र शिरः करेण ॥ ५९