वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 300, कुल 465 में से
संदर्भ में पढ़ें[अ० ७८ श्लो० ११-३४] वायुपुराणम् । २९१
( श्राद्धकल्पः )
वंशीकरीराः सुरसाः सर्जकं भूस्तृणानि च। वर्जनीयानि वक्ष्यामि श्राद्धकर्मणि नित्यशः ॥ ११
[ + लशुनं गृञ्जनं चैव पलाण्डुः पिण्डमूलकम् । करम्भाद्यानि चान्यानि हीनानि रसगन्धतः ॥ १२
श्राद्धकर्माणि वर्ज्यानि कारणं चात्र वक्ष्यते । पुरा दे (दै) वासुरे युद्धे निर्जितस्य बलेः सुरैः ॥ १३
व्रणेभ्यो विस्फुरन्तो वै पतिता रक्तबिन्दवः । तत एतानि वर्ज्यानि श्राद्धकर्मणि नित्यशः ] ॥ १४
अथ वेदोक्तनिर्यासाँल्लवणान्यूषणानि च । श्राद्धकर्माणि वर्ज्यानि याश्च नार्यो रजस्वलाः ॥ १५
दुर्गन्धं फेनिलं चैव तथा वै पल्वलोदकम् । न लभ्येत्र गौस्तृप्तिं नक्तं यच्चैव गृह्यते ॥ १६
आविकं मार्यनौष्ट्रं च सर्वमेकशफं च यत् । माहिषं चामरं चैव पयो वर्ज्यं विजानता ॥ १७
अतः परं प्रवक्ष्यामि वर्ज्यान्देशान्प्रयत्नतः । न द्रष्टव्यं च यैः श्राद्धं शौचाशौचं च कृत्स्नशः ॥ १८
वन्यमूलफलाहारैः श्राद्धं कुर्यात्तु श्रद्धया । राष्ट्रमिष्टमवाप्नोति स्वर्गं मोक्षं यशस्करम् ॥ १९
अनिष्टशब्दसंकीर्णं जन्तुव्याप्रमथापि वा । पूतिगन्धां तथा भूमिं श्राद्धकर्माणि वर्जयेत् ॥ २०
नद्यः सागरपर्यन्ता द्वारं दक्षिणपूर्वतः । त्रिशङ्कं वर्जयेद्देशं सर्वं द्वादशयोजनम् ॥ २१
उत्तरेण महानद्या दक्षिणेन च कैकटात् । देशश्चैवाङ्गवो नाम वर्जितः श्राद्धकर्मणि ॥ २२
कारस्कराः कलिङ्गाश्च सिन्धोरुत्तरमेव च । प्रनष्टाश्रमधर्माश्च वर्ज्या देशाः प्रयत्नतः ॥ २३
नग्नादयो न पश्येयुः श्राद्धमेवं व्यवस्थितम्। गच्छन्ति तैस्तैर्दृष्टानि न पितॄन् पितामहान् ॥ २४
शंयुरुवाच--
नग्नादीन्भगवात्सम्यङ्ङममाद्य परिपृच्छतः । कथय द्विजमुख्याग्र्य विस्तरेण यथातथम् ॥ २५
एवमुक्तो महातेजा बृहस्पतिरुवाच तम् । सर्वेषामेव भूतानां त्रयी संवरणं स्मृतम् ॥ २६
परित्यजति यो मोहात्ते वै नग्नादयो जनाः । प्रलीयते नरो यस्मान्निरालम्बश्च यो वृषः ॥ २७
वृषं यश्च परित्यज्य मोक्षमन्यत्र मार्गति । वृथा वेदाश्रमास्तस्मिन्यो वै सम्यङ्न पश्यति ॥ २८
ब्राह्मणाः क्षत्रिया वैश्या वृषलाश्चैव सर्वशः । पुरा दे ( दै ) वासुरे युद्धे निर्जितैरसुरैस्तदा ॥ २९
पाषण्डवैकृतास्तात नैषा सृष्टिः स्वयंभुवः । *यद्विश्राद्धकनिर्गन्थाः शक्त्या जीवन्ति कर्पटाः ॥ ३०
ये धर्मं नानुवर्तन्ते ते वै नग्नादयो जनाः । वृथाजटी वृथामुण्डी वृथानग्नश्च यो द्विजः ॥ ३१
वृथाव्रती वृथाजापी ते वै नग्नादयो जनाः । कुलंधमा निकाशाश्च तथा पुष्टिकलेशकाः ॥ ३२
कृतकर्माक्षितास्त्वेते कुपथाः परिकीर्तिताः । एभिर्निर्वृत्तं वा श्राद्धं वृथा गच्छति मानवान् ॥ ३३
ब्रह्मघ्नश्च कृतघ्नश्च नास्तिका गुरुतल्पगाः । दस्यवश्च नृशंसाश्च दर्शनेनैव वर्जिताः ॥ ३४
- धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । *एतदर्धस्थानेऽयं पाठः- 'द्विश्राद्धकश्च निर्ग्रन्थाः शक्त्या पुष्टिकलेशकाः ' इति क. पुस्तके ।