सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 282, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 282

[अ०७१-७२श्लो०५८-७९।१] वायुपुराणम् । २७३

( श्राद्धकल्पः )
आप्याययन्ति ते यस्मात्सोमं चान्नं च योगतः । ऊचुस्तान्रै पितॄंस्तस्माल्लोकानां लोकसत्तमाः ॥५८
मनोजवाः स्वधाभक्षाः सर्वकामपरिच्छदाः । लोभमोहभयांपेता निश्चिन्ताः शोकवर्जिताः ॥ ५९
एते योगं परित्यज्य प्राप्ता लोकान्सुदर्शनान् । दिव्याः पुण्या महात्मानो विपाप्मानो भवन्त्युत ॥ ६०
ततो युगसहस्रान्ते जायन्ते ब्रह्मवादिनः । प्रतिलभ्य पुनर्योगं मोक्षं गच्छन्त्यमूर्तयः ॥ ६१
व्यक्ताव्यक्तं परित्यज्य महायोगबलेन वा । नश्यन्त्युल्केव गगने क्षीणविद्युत्प्रभेव च ॥ ६२
उत्सृज्य देहजातानि महायोगबलेन च । निराख्योपाख्यतां यान्ति सरितः सागरे यथा ॥ ६३
क्रियया गुरूपूजाभिर्योगं कुर्वन्ति नित्यशः । ताभिराप्यायन्त्येते पितरो योगवर्धनाः ॥ ६४
श्राद्धे प्रीताः पुनः सोमं पितरो योगमास्थिताः । आप्याययन्ति योगेन त्रैलोक्यं येन जीवति ॥ ६५
तस्माच्छ्राद्धानि देयानि योगिभ्यो यत्नतः सदा । पितॄणां हि बलं योगो योगात्सोमः प्रवर्तते ॥ ६६
सहस्रशस्तु विप्रान्वै भोजयेद्यावदागतान् । एकस्तु योगवित्प्रीतः सर्वानर्हति तच्छृणु ॥ ६७
काल्पितानां सहस्रेण स्नातकानां शतेन च । योगाचार्येण यद्भुक्तं त्रायते महतो भयात् ॥ ६८
गृहस्थानां सहस्रेण वानप्रस्थशतेन च । ब्रह्मचारिसहस्रेण योगी ह्येको विशिष्यते ॥ ६९
नास्तिको वा विकर्मा वा संकीर्णस्तस्करोऽपि वा । नान्यत्र कारणं दानं योगेष्ववाह प्रजापतिः ॥७०
पितरस्तस्य तुष्यन्ति सुवृष्टेनेव कर्षकाः । पुत्रो वाऽप्यथ वा पौत्रो ध्यानिनं भोजयिष्यति ॥ ७१
अलाभे ध्यानिभिक्षूणां भोजयेद्ब्रह्मचारिणौ । तदलाभेऽप्युदासीनं गृहस्थमपि भोजयेत् ॥ ७२
यस्तिष्ठेदेकपादेन वायुभक्षः शतं समाः । ध्यानयोगी परतस्मादिति ब्रह्मानुशासनम् ॥ ७३
सिद्धा हि विप्ररूपेण चरन्ति पृथिवीमिमाम् । तस्मादतिथिमायान्तमभिगच्छेत्कृताञ्जलिः ॥ ७४
पूजयेच्चार्घ्यपाद्येन वेश्मना भोजनेन च । उर्वी सागरपर्यन्तां देवा योगेश्वराः सदा ॥ ७५
नानारूपैश्चरन्त्येते प्रजा धर्मेण पालयन् ॥ ७६
तस्माद्दद्याच्च वै दानं विप्रायातिथये नरः । प्रदानानि प्रवक्ष्यामि फलं चैषां तथैव च ॥ ७७
अश्वमेधसहस्रेण राजसूयशतेन च । पुण्डरीकसहस्रेण योगिष्वावसथो वरम् ॥ ७८
आद्य एष गणः प्रोक्तः पितॄणाममितौजसाम् । भावयन्सप्त कालान्वै स्थित एष गणः सदा ॥ ७८
अत ऊर्ध्वं प्रवक्ष्यामि सर्वान्पितॄगणान्पुनः । संततिं संस्थितिं चैव भावनां च यथाक्रमम् ॥ ७९

इति श्रीमहापुराणे वायुप्रोक्त उपोद्घातपादे श्राद्धप्रक्रियारम्भो नामैकसप्ततितमोऽध्यायः ॥ ७१ ॥
आदितः श्लोकानां समष्ट्यङ्काः-६६७६

अथ द्विसप्ततितमोऽध्यायः ।

श्राद्धकल्पः ।

सूत उवाच--
सप्त मेधावतां श्रेष्ठाः स्वर्गे पितृगणाः स्मृताः । चत्वारो मूर्तिमन्तश्च त्रयस्तेषाममूर्तयः ॥
तेषां लोकविसर्गं तु कीर्तयिष्ये निबोधत ॥ १

३५