वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 281, कुल 465 में से
संदर्भ में पढ़ें२७२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०७१श्लो०३०-५७]
( श्राद्धप्रक्रियारम्भः )
श्राद्धैराप्यायितः सोमो लोकानाप्याययिष्यति । कृत्स्नं सपर्वतवनं जङ्गमाजङ्गमैरवृतम् ॥ ३०
श्राद्धानि पुष्टिकामश्च ये करिष्यन्ति मानवाः । तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा ॥ ३१
श्राद्धे येभ्यः प्रदास्यन्ति त्रीन्पिण्डान्नामगोत्रतः । सर्वत्र वर्तमानास्ते पितरः प्रपितामहम् ॥
तेष्यामाप्याययिष्यन्ति श्राद्धदानेन वै प्रजाः ॥ ३२
एवमाज्ञा कृता पूर्वं ब्रह्मणा परमेष्ठिना । तेनैतत्सर्वथा सिद्धं दानमध्ययनं तपः ॥ ३३
ते तु ज्ञानप्रदातारः पितरो वो न संशयः । इत्येते पितरो देवा देवाश्च पितरः पुनः ॥
अन्योन्यापितरो ह्येते देवाश्च पितरश्च ह ॥ ३४
एतद्वलवचः श्रुत्वा सूतस्य विहितात्मनः । पप्रच्छुर्मुनयो भूयः सूतं तस्माद्यदुत्तरम् ॥ ३५
ऋषय ऊचुः--
कियन्तो वै पितृगणाः कस्मिन्काले च ते गणाः । वर्तन्ते देवप्रवरा देवानां सोमवर्धनाः ॥ ३६
सूत उवाच--
एतद्वोऽहं प्रवक्ष्यामि पितृसर्गमनुत्तमम् । शंयुः पप्रच्छ यत्पूर्वं पितरं वै बृहस्पतिम् ॥ ३७
बृहस्पतिमुपासीनं सर्वज्ञानार्थकोविदम् । पुनः शंयुरिमं प्रश्नं पप्रच्छ विनयान्वितः ॥ ३८
क एते पितरो नाम कियन्तः के च नामतः । समुद्भूताः कथं चैते पितृत्वं समुपागताः ॥ ३९
कस्माच्च पितरं पूर्वे यज्ञेऽप्युज्यन्त नित्यशः । क्रियाश्च सर्वा वर्तन्ते श्राद्धपूर्वा महात्मनाम् ॥ ४०
कस्मै श्राद्धानि देयानि किं च दत्तं महाफलम् । केषु वाऽप्यक्षयं श्राद्धं तीर्थेषु च नदीषु च ॥ ४१
केषु वै सर्वमाप्नोति श्राद्धं कृत्वा द्विजोत्तमः । कश्च कालो भवेच्छ्राद्धे विधिः कश्चानुवर्तते ॥ ४२
एतदिच्छामि भगवांन्विस्तरेण यथातथम् । व्याख्यातुमानुपूर्व्येण यत्र चोदाहृतं मया ॥ ४३
बृहस्पतिरिदं सम्यगेवं पृष्टो महामतिः । व्याजहाराऽऽनुपूर्व्येण प्रश्नं प्रश्नविदां वरः ॥ ४४
बृहस्पतिरुवाच--
कथयिष्यामि ते तात यन्मां त्वं परिपृच्छसे । विनयेन यथान्यायं गम्भीरं प्रश्नमुत्तमम् ॥ ४५
द्यौरन्तरीक्षं पृथिवी नक्षत्राणि दिशस्तथा । सूर्याचन्द्रमसौ चैव तथाऽहोरात्रमेव च ॥ ४६
न बभूवुस्तदा तात तमोभूतमिदं जगत् । ब्रह्मैको दुश्चरं तत्र चचार परमं तपः ॥ ४७
शंयुस्तमब्रवीद्भूयः पितरं ब्रह्मवित्तमम् । सर्वदेव व्रतस्नातं सर्वज्ञानविदां वरम् ॥ ४८
कीदृशं सर्वभूतशस्तपस्तेपे प्रजापतिः । एवमुक्तो बृहत्तेजा बृहस्पतिरुवाच तम् ॥ ४९
सर्वेषां तपसां युक्तिस्तपोगमनुत्तमम् । ध्यायंस्तदा तद्भगवांस्तेन लोकानवासृजत् ॥ ५०
भूतभव्यानि ज्ञानानि लोकान्वेदांश्च कृत्स्नशः । योगमाविश्य तत्सृष्टं ब्रह्मणा योगचक्षुषा ॥ ५१
लोकाः सांताानका नाम यत्र तिष्ठन्ति भास्वराः । ते वैराजा इतिख्याता देवानां दिवि देवताः ॥ ५२
योगेन तपसा युक्तः पूर्वमेव तदा प्रभुः । देवानसृजत ब्रह्मा योगं युक्त्वा सनातनम् ॥ ५३
आदिदेवा इति ख्याता महासत्त्वा महौजसः । सर्वकामप्रदाः पूज्या देवदानवमानवैः ॥ ५४
तेषां सप्त समाख्याता गणास्त्रैलोक्यपूजिताः । अमूर्तयस्त्रयस्तेषां चत्वारस्तु सुमूर्तयः ॥ ५५
उपरिष्टात्रयस्तेषां वर्तन्ते भावमूर्तयः । तेषामधस्ताद्वर्तन्ते चत्वारः सूक्ष्ममूर्तयः ॥ ५६
ततो देवास्ततो भूमिरेशा लोकपरम्परा । लोकं वर्तन्ति ते ह्यस्मिंस्तेभ्यः पर्जन्यसंभवः ।
वृष्टिर्भवति तैर्वृष्ट्या लोकानां संभवः पुनः ॥ ५७