वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 120, कुल 296 में से
संदर्भ में पढ़ें84 वास्तुमण्डनम्
दुर्गे भूमिवशात्कार्या हट्टमार्गजलाशयाः ।
सर्वत्र राज्ञ आदेशात्प्रासादभवनादिकम् ॥ २० ॥
कोष्ठे विद्याधरी बाह्या ५द्विहस्तान्यधिकोदयौ ।
गूढं युद्धासनं कोष्ठे तस्यां वा कारयेत्सुधीः ॥ २१ ॥
गढमध्ये चतुर्दिक्षु मार्गं कुर्यात्प्रदक्षिणम् ।
तत्र दुर्गे भवेद्रक्षा गजवाजिपदातिभिः ॥ २२ ॥
तन्मार्गान्मध्यदेशे तु गृहाणि विनिवेशयेत् ।
दृढानि पुरगोतृणां परेषां द्वेषिणामपि ॥ २३ ॥
ब्राह्मणान्वासयेत्प्राच्यां क्षत्रं याम्योत्तरे विशः ।
वापीकूपादिवारुण्यामुत्तरस्यां तु शूद्रकान् ॥ २४ ॥
शिल्पिरङ्गकरानीशे वह्नौ तज्जीविनोऽन्त्यजान् ।
नैर्ऋत्ये शौण्डिकान् वेश्यां वायव्ये लुब्धकादिकान् ॥ २५ ॥
वराहः ॥
कोणेषु वसतां दोषाः पुरग्रामगृहादिषु ।
तेष्वेव वृद्धिमायाति अन्त्यजाः श्वपचादयः ॥ २६ ॥
ईशकोणे न्यसेत्सूर्यं वह्निकोणे गणाधिपम् ।
नैर्ऋत्ये च सहस्राक्षं वायव्यां तु जनार्दनम् ॥ २७ ॥
पूर्वापरमुखादेवा कार्या न दक्षिणोत्तराः ।
नगराभिमुखा श्रेष्ठा भङ्गदास्ते पराङ्मुखाः ॥ २८ ॥
गणेशो भैरवश्चण्डी नकुलीशो ग्रहस्तथा ।
मातरोमूर्त्तयो देव्याः शुभा दक्षिणदिङ्मुखाः ॥ २९ ॥
हनुमान्वानरः श्रेष्ठो नैर्ऋत्यादिमुखो भवेत् ।
गणेशो धनदो लक्ष्मीः पुरद्वारे सुखावहाः ॥ ३० ॥
५. हस्ताल्य - In A, हस्ताम्य - In D E