वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 99, कुल 106 में से
संदर्भ में पढ़ेंस्वकीयैः पितृनामाद्यैरर्थिप्रत्यर्थिसाक्षिणाम् ।
प्रतिनामभिराक्रान्तमर्थिसाक्षिश्वहस्त्वत् ।
स्पष्टावगतसंयुक्तं यथास्मृत्युक्तलक्षणम् ॥ १४ ॥
राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा ।
राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् ॥ १५ ॥
शासनं प्रथमं ज्ञेयं जयपत्रं तथापरम् ।
आज्ञाप्रज्ञापनपत्रे राजकीयं चतुर्विधम् ॥ १६ ॥
सामन्तेष्वथ भृत्येषु राष्ट्रपालादिकेषु वा ।
कार्यमादिश्यते येन तदाज्ञापत्रमुच्यते ॥ १७ ॥
ऋत्विक्पुरोहिताचार्यमान्येष्वाभ्यर्हितेषु च ।
कार्यं निवेद्यते येन पत्रं प्रज्ञापनाय तत् ॥ १८ ॥
पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽभिलेषयेत् ।
पाण्डुलेखेन फलके ततः पत्रं विशोधयेत् ॥ १९ ॥
यथोपन्यस्तसाध्यार्थं संयुक्तं सोत्तरक्रियम् ।
सावधारणकं चैव जयपत्रकमुच्यते ॥ २० ॥
प्राड्विवाकादिहस्ताङ्कं मुद्रितं राजमुद्रया ।
सिद्धेऽर्थे वादिने दद्याज्जायने जयपत्रकम् ॥ २१ ॥
सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः ।
यथालिख्यं विधौ तद्वत्स्वहस्तं तत्र दापयेत् ॥ २२ ॥
कालं निवेश्य राजानं स्थानं निवसितं तथा ।
दायकं ग्राहकं चैव पितृनाम्नां च संयुतम् ॥ २३ ॥
जातिं स्वगोत्रं शाखां च द्रव्याधार्थी स संख्यकम् ।
वृद्धिं ग्राहकहस्तं च विदिताथ च साक्षिणौ ॥ २४ ॥
तुल्यकाले निसृष्टानां लेख्यानामाधिकर्मणि ।
येन भुक्तं भवेत्पूर्वं तस्याधिर्बलवत्तरः ॥ २५ ॥
यद्येकदिवसे तौ तु भोक्तुकामावुपगता ।
विभज्याधिः समस्तत्र भोक्तव्य इति निश्चयः ॥ २६ ॥
सामान्योयं धर्मसेतुर्नृपाणां
काले काले पालनीयो भवद्भिः ।
सर्वानितान्भाविनः पार्थिवेन्द्रान्
भूयो भूयो याचते रामभद्रः ॥ २७ ॥
15–18. May. 11, 10; Vīr. 196; 22. Mit. [I. 33; Sm. Ap.
Sm. Ap. Vaij. 23-24. Vīr. 191; Sm. Ap.
19. Sm. Mādh. Ap. 25. May 67, 16 : Vīr. 311, Ap.
20–21. Vīr. 195, 1; Mit II., 26. May. 67; Vīr 96; Sm.
33; Sm. 27. Ap. Vaij Kam.