सामग्री पर जाएँ
सर्वकोश
वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

Vasishtha Dharmashastra with Commentary

महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 100, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 100

८४
रुणद्धि रोदसी चास्य यावत्कीर्तिस्तरस्विनी ।
तावत्किलायमध्यास्ते सुकृती वैबुधं पदम् ॥ २८ ॥
ताम्रायः कांस्यरीतीनां त्रगुणः सीसकस्य च ।
त्रिगुणा तिष्ठतो वृद्धिः कालाचिरकृतस्य तु ॥ २९ ॥
दन्तचर्मास्थिशृङ्गाणां मृन्मयानां तथैव च ।
अक्षया वृद्धिरितेषां पुष्पमूलफलस्य च ॥ ३० ॥
पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते ।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ ३१ ॥
ज्येष्ठस्यांशोधिको देयः कनिष्ठस्य वरः स्मृतः ।
समांशभाजः शेषाः स्युरप्रत्ता भगिनी तथा ॥ ३२ ॥
भ्रातृणामविभक्तानां यद्युत्थानं भवेत्सह ।
न तत्र विषमं भागं पिता दद्यात्कथं च न ॥ ३३ ॥
28. Ap. Vaij. Kam.
29. Vīr. 299 ; Ap.
30. Vīr. 300 ; Ap. Vaij.
31. Vīr. 644 : Ap. Vaij.
32. Vīr. 561 ; Vaij. Kam.
33. Vīr. 562 ; Ap. Sm.