सामग्री पर जाएँ
सर्वकोश
वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

Vasishtha Dharmashastra with Commentary

महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 94, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 94

गृहप्रदो नगरमाप्नोति ॥ १४ ॥
उपानत्प्रदाता यान्र्मासादयते ॥ १५ ॥
अथाप्युदाहरन्ति ।
यत्किंचित्कुरुते पापं पुरुषो वृत्तिकर्शितः ।
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥ १६ ॥
विप्रायाचमनार्थं तु दद्यात्पूर्णकमण्डलुम् ।
प्रेत्य तृप्तिं परां प्राप्य सोमपो जायते पुनः ॥ १७ ॥
अनडुहां सहस्राणां दत्तानां धुर्यवाहिनाम्।
सुपात्रे विधिवद्दानं कन्यादानेन तत्समम् ॥ १८ ॥
त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती ।
अतिदानं हि दानानां विद्यादानं ततोधिकम् ॥ १९ ॥
आत्यन्तिकफलप्रदं मोक्षसंसारमोचनम् ।
योनसूयुरिमं विद्वानाचारमनुवर्तते ॥ २० ॥
श्रद्दधानः शुचिर्दान्तो धारयेच्छृणुयादपि ।
विहाय सर्वपापानि नाकपृष्ठे महीयत इति ॥
नाकपृष्ठे महीयत इति ॥ २१ ॥
इति वासिष्ठधर्मशास्त्रे एकोनत्रिंशोध्यायः॥ २९ ॥
धर्मं चरत माधर्मं सत्यं वदत नानृतम् ।
दीर्घं पश्यत मा ह्रस्वं परं पश्यत मापरम् ॥ १ ॥
ब्राह्मणो भवत्यग्निः ॥ २ ॥
14. नगजं E. 18. दशानां H. विधिदत्तानां B. Ban. ed. F. H. 19. त्रीण्या-
हुरिति दानानि E. आदिदानं हिरण्यानां F. 20. औत्पत्तिकफल°. H. योगिनां
संपूर्त्तिं विद्वान् B. Ban. ed. योगिनां संमर्त E. योनसंयुरिम F. H.