वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 93, कुल 106 में से
संदर्भ में पढ़ें७९
सुवर्णनाभं कृत्वा तु सखुरं कृष्णमार्गजम् ।
तिलैः प्रच्छाद्य यो दद्यात्तस्य पुण्यफलं शृणु ॥ २० ॥
ससुवर्णगुहा तेन सशैलवनकानना ।
चतुर्वक्त्रा भवेद्दत्ता पृथिवी नात्र संशयः ॥ २१ ॥
कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी ।
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतमिति ॥
सर्वं तरति दुष्कृतमिति ॥ २२ ॥
इति वासिष्ठधर्मशास्त्रेष्टाविंशोध्यायः ॥ २८ ॥
दानेन सर्वान्कामानवाप्नोति ॥ १ ॥
चिरजीवित्वं ब्रह्मचारी रूपवान् ॥ २ ॥
अहिंस्युपपद्यते स्वर्गम् ॥ ३ ॥
अग्निप्रवेशाद्ब्रह्मलोकः ॥ ४ ॥
मौनात्सौभाग्यम् ॥ ५ ॥
नागाधिपतिरुदकवासात् ॥ ६ ॥
नी निरुजः क्षीणकोषः ॥ ७ ॥
तोयदः सर्वकामसमृद्धः ॥ ८ ॥
अन्नप्रदाता सुचक्षुः स्मृतिमान् ॥ ९ ॥
मेधावी सर्वतोभयदाता ॥ १० ॥
गोप्रयुक्ते सर्वतीर्थोपस्पर्शनम् ॥ ११ ॥ स्नान मित्यर्थः।
शय्यासनदानादन्तःपुराधिपत्यम् ॥ १२ ॥
छत्रदानाद्गृहलाभः ॥ १३ ॥
20. °मार्गणं F. H. 21. °गृहोपेता H.
XXIX. 1. सर्वकामान् B. F. H.
वासिष्ठ धर्म ११