सामग्री पर जाएँ
सर्वकोश
वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

Vasishtha Dharmashastra with Commentary

महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 65, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 65

५१
याश्चानपत्यास्तासामा पुत्रलाभात् ॥ ४१ ॥
द्व्यंशं ज्येष्ठो हरेत् ॥ ४२ ॥
गवाश्वस्य चानुदशमम् ॥ ४३ ॥
अजावयो गृहं च कनिष्ठस्य ॥ ४४ ॥
कार्ष्णायसं गृहोपकरणानि च मध्यमस्य ॥ ४५ ॥
मातुः पारिणेयं स्त्रियो विभजेरन् ॥ ४६ ॥
यदि ब्राह्मणस्य ब्राह्मणीक्षत्रियावैश्यासु पुत्राः स्युः ॥ ४७ ॥
त्र्यंशं ब्राह्मण्याः पुत्रो हरेत् ॥ ४८ ॥
द्व्यंशं राजन्यायाः पुत्रः ॥ ४९ ॥
सममितरे विभजेरन् ॥ ५० ॥
येन चैषां स्वयमुत्पादितं स्याद् द्व्यंशमेव हरेत् ॥ ५१ ॥
अनंशास्त्वाश्रमन्तरगताः ॥ ५२ ॥
क्लीबोन्मत्तपतिताश्च ॥ ५३ ॥
भरणं क्लीबोन्मत्तानाम् ॥ ५४ ॥
प्रेतपत्नी षण्मासान्व्रतचारिण्यक्षारलवणं भुञ्जानाधः शयीत
॥ ५५ ॥
ऊर्ध्वं षड्भ्यो मासेभ्यः स्नात्वा श्राद्धं च पत्ये दत्त्वा विद्याकर्म-
गुरुयोनिसंबन्धान्संनिपात्य पिता भ्राता वा नियोगं कारयेत्
॥ ५६ ॥
न सोन्मादामवशां व्याधितां वा नियुञ्ज्यात् ॥ ५७ ॥
ज्यायसीमपि ॥ ५८ ॥
षोडश वर्षाणि ॥ ५९ ॥
न चेदामयावी स्यात् ॥ ६० ॥
47. यदि च E. H. 56. सन्नियोगं Ban. ed. H. 57. उन्मत्तां B, F. H.
perhaps वशां to be read instead of अवशां of all the Mss.