वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 64, कुल 106 में से
संदर्भ में पढ़ें५०
गृहे च गूढोत्पन्नः षष्ठः ॥ २४ ॥
इत्येते दायादा बान्धवास्त्रातारो महतो भयादित्याहुः ॥ २५ ॥
अथादायादबन्धूनां सहोढ एव प्रथमः ॥ २६ ॥
या गर्भिणी संस्क्रियते सहोढः पुत्रो भवति ॥ २७ ॥
दत्तको द्वितीयः ॥ २८ ॥
यं मातापितरौ दद्याताम् ॥ २९ ॥
क्रीतस्तृतीयः ॥ ३० ॥
तच्छुनःशेपेन व्याख्यातम् ॥ ३१ ॥
हरिश्चन्द्रो वै राजा सोजीगर्तस्य सौयवसेः पुत्रं चिक्राय ॥ ३२ ॥
स्वयमुपागतश्चतुर्थः ॥ ३३ ॥
तच्छुनःशेपेन व्याख्यातम् ॥ ३४ ॥
शुनःशेपो वै यूपे नियुक्तो देवतास्तुष्टाव । तस्येह देवताः
पाशं विमुमुचुस्तमृत्विज ऊचुः । ममैवायं पुत्रोस्त्विति तान्ह न
संपेदे । ते संपादयामासुः । एष एव यं कामयेत्तस्य पुत्रोस्त्विति ।
तस्य ह विश्वामित्रो होतासीत्तस्य पुत्रत्वमियाय ॥ ३५ ॥
अपविद्धः पञ्चमः ॥ ३६ ॥
यं मातापितृभ्यामपास्तं प्रतिगृह्णीयात् ॥ ३७ ॥
शूद्रापुत्र एव षष्ठो भवतीत्याहुरित्येतेदायादबान्धवाः ॥ ३८ ॥
अथाप्युदाहरन्ति ।
यस्य पूर्वेषां षण्णां न कश्चिद्दायादः स्यादेते तस्य दायं
हरेरन्निति ॥ ३९ ॥
अथ भ्रातॄणां दायविभागः ॥ ४० ॥
- हरिश्चन्द्रोह वै F. H. विक्रीण्य B. विक्रीय Ban. ed. विक्रांय Bh.
E. F. H. विक्राय्य स्वयं क्रीतवान् Calc. ed. J. O. 913. 34 °उपनयतः B.
F. H. 35. यूपेन B. Bh. E. H. 39. सर्वेषां धर्माणं न E. पूर्वेषां वर्णानां न
Bh. F. H.