सामग्री पर जाएँ
सर्वकोश
वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

Vasishtha Dharmashastra with Commentary

महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 42, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 42

न कुट्यां नोदके सङ्गो न चैले न त्रिपुष्करे ।
नागारे नासने नान्ने यस्य वै मोक्षवित्तु स इति ॥ २३ ॥
ब्राह्मणकुले यावल्लभेत तद्भुञ्जीत सायं प्रातर्मधुमांसवर्जम् ॥ २४ ॥
न च तृप्येत् ॥ २५ ॥
ग्रामे वा वसेत् ॥ २६ ॥
अजिह्वोऽशढोऽशरणोऽवसङ्कुसुकः ॥ २७ ॥
न चेन्द्रियसंसर्गं कुर्वीत केनचित् ॥ २८ ॥
उपेक्षकः सर्वभूतानां हिंसानुग्रहपरिहारेण ॥ २९ ॥
पैशुन्यमत्सराभिमानाहङ्काराश्रद्धानानार्जवात्मस्तवपरगर्हादम्भलोभ-
मोहक्रोधासूयाविवर्जनं सर्वाश्रमाणां धर्म इष्टः ॥ ३० ॥
यज्ञोपवीत्युदकमण्डलुहस्तः शुचिर्ब्राह्मणो वृषलान्नवर्जी न हीयते
ब्रह्मलोकाद्ब्रह्मलोकादिति ॥ ३१ ॥
इति वासिष्ठधर्मशास्त्रे दशमोऽध्यायः ॥ १० ॥
षडर्हार्हा भवन्ति ॥ १ ॥
ऋत्विग्विवाह्यो राजापितृव्यस्नातकमातुलाश्च ॥ २ ॥
वैश्वदेवस्य सिद्धस्य सायं प्रातर्गृह्याग्नौ जुहुयात् ॥ ३ ॥
गृहदेवताभ्यो बलिं हरेत् ॥ ४ ॥
श्रोत्रियायाग्रभागं दत्त्वा ब्रह्मचारिणे वानन्तरं पितृभ्यो दद्यात् ॥ ५ ॥
ततोऽतिथिं भोजयेच्छ्रेयांसं श्रेयांसमानुपूर्व्येण ॥ ६ ॥
23. कुड्यां F. H. 24. After this Sūtra F. only reads : यतीन्साधून्वा
गृहस्थः तृप्येत् । 27. °अशवः instead of °अशढः Bh. E. अवसङ्कसुकः B.
Ban. ed. E. 30. स्तेयं instead of असूया H.
XI, 1. षडर्घ्याः Bh. E. H. 2. वैवाह्यः H. 5. श्रोत्रियायान्नं दत्त्वा H.