सामग्री पर जाएँ
सर्वकोश
वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

Vasishtha Dharmashastra with Commentary

महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 41, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 41

३७
अजिनेन वा गोप्रलूनैस्तृणैरवस्तृतशरीरः ॥ १० ॥
स्थण्डिलशायी ॥ ११ ॥
अनित्यां वसतिं वसेत् ॥ १२ ॥
ग्रामान्ते देवगृहे शून्यागारे वा वृक्षमूले वा ॥ १३ ॥
मनसा ज्ञानमधीयानः ॥ १४ ॥
अरण्यनित्यः ॥ १५ ॥
न ग्राम्यपशूनां सन्दर्शने विचरेत् ॥ १६ ॥
अरण्यनित्यस्य जितेन्द्रियस्य
सर्वेन्द्रियप्रीतिनिवर्तकस्य ।
अध्यात्मचिन्तागतमानसस्य
ध्रुवा ह्यनावृत्तिरुपेक्षकस्येति ॥ १७ ॥
अव्यक्तलिङ्गोऽव्यक्तचारः ॥ १८ ॥
अनुन्मत्त उन्मत्तवेषः ॥ १९ ॥
अथाप्युदाहरन्ति ।
न शब्दशास्त्रभिरतस्य मोक्षो
न चापि लोकग्रहणे रतस्य ।
न भोजनाच्छादनतत्परस्य
न चापि रम्यावसथप्रियस्य ॥ २० ॥
न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । (मनौ ६।५०।।)
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ २१ ॥
अलाभे न विषादी स्याल्लाभे नैव च हर्षयेत् । (मनौ ६।५७।।)
प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विवर्जितः ॥ २२ ॥
10. गोत्रलूनैः Bh. E H. 17. अथाप्युदाहरन्ति B. F. H. बुधः instead of
ध्रुवाः E. 19. अनुन्मत्तवेणः H. 22. ॰विनिर्गतः B. F.