वासवदत्ता (महाकवि सुबन्धु - श्लेष-प्रधान शास्त्रीय गद्यकाव्य सान्वय सटीक)
Vasavadatta of Mahakavi Subandhu with Commentary
महाकवि सुबन्धु द्वारा
पृष्ठ 165, कुल 244 में से
संदर्भ में पढ़ेंश्रीहयग्रीवाय नमः।
वासवदत्ता सव्याख्या।
(१) [२] करबदरसदृशं अखिलं भुवनतलं यत्प्रसा-
दतः कवयः
पश्यन्ति सूक्ष्ममतयस् सा जयति सरस्वती देवी।
खिन्नो ऽसि मुञ्च शैलं बिभृमो वयम् इति वदत्सु
शिथिलभुजः
भरभुग्नवि(तथ)बाहुषु गोपेषु हसन् हरिर् जयति।
[४] स जयति हिमकरलेखा चकास्ति यस्यो ऽमयो ऽत्(कया)
निहिता
नयनप्रदीपकज्जलजिघृक्षया रजतशुक्तिर् इ(२)व।
[३] कठिनतरदामवेष्टनलेखासंदेहदायिनो यस्य
राजन्ति वलिविभङ्गास् स पातु दामोदरो भवतः।
[४] भवति सुभगत्वम् अधिकं विस्तारितपरगुणस्य
सुजनस्य
वहति विकासितकुमुदो द्विगुणरुचिं हिमकर(द्)योतः।
[५] विषधरतो ऽप्य् अतिविषमः खल इति न मृषा वदन्ति
विद्वांसः
यद् अयं नकुलद्वेषी सकुलद्वेषी पुनः (पुनः) पिशुनः।
[६] अतिमलिने कर्तव्ये भवति खलानाम् अतीव निपुणा धीः
तिमिरे हि कौशिकानां रूपं प्रतिपद्यते (दृष्टिः)।
[७] हस्त इव भूतिमलिनो यथा यथा लङ्घयति खलस्
सुजनम्
दर्पणम् इव तं कुरुते तथा तथा निर्मलच्छायम्।
[६] विध्वस्तपरगुणानां भवति खलानाम् अतीव मलि-
नत्वम्
अन्तरितशशिरुचाम् अपि सलिलमुचां मलिणिमा ऽभ्य-
धिकः।
[७] सा रसवत्ता विहता नवका (३) विलसन्ति चरति नो कं
कः
सरसी ऽव कीर्तिशेषं गतवति भुवि विक्रमादित्ये।
L