सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 368, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 368

२६६ वरिवस्यारहस्ये
'व्याप्ता पञ्चदशार्णैः सा विद्या भूतगुणात्मिका ।
पञ्चभिश्च तथा षड्भिश्चतुर्भिरपि चाक्षरैः ॥'
इति स्फुटतरवचनविरोधात् । तत्र हि सामान्येन पञ्चदशसंख्याकाक्षरवत्त्वमुपपाद्य
संभावितनानाशङ्कापरिहाराय विशिष्य विशिष्य कूटत्रयाक्षराणां गणनयाऽज्भिरेव
सव्यञ्जनैः संख्यापूर्तिरित्यस्य स्पष्टं निर्धारितत्वादिति । अत्र ब्रूमः—सायमज्भिरेव
पञ्चदशत्वम्; तथापि हकारादिव्यञ्जनानामेव गुणभेदः, तेषामेव तद्वाचकत्वात् ।
शक्ततावच्छेदकं तु पञ्चदशसंख्यासमवायित्वसमानाधिकरणहकारत्वादिकं न पुनः
शुद्धहकारत्वादिकम्, अन्यथा हकारेण व्योमवाचकेन प्रकृते शब्दलक्षणायां
युगपद्वृत्तिद्वयविरोधापत्तेः । शब्दैक्ये ऽपि शक्ततावच्छेदकरूपधर्मद्वयभेदेनार्थद्वय-
भानमुपपद्यते । कथमम्यथा लि