सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 192, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 192

९० वरिवस्यारहस्ये
* प्रकाश *
व्योम हकारः केवलो न त्वकारविशिष्टः । अग्नी रेफस्तादृशः । वामलोचने-
कारः१ । बिन्द्वादयो नवापि सूक्ष्मसूक्ष्मतरासूक्ष्मतमकालैरुच्चार्या ध्वनिविशेषाः, वर्ण-
विशेषा वा । न च ककारादिवत् स्पष्टमनुच्चार्यत्वात् तन्त्रीस्वरतुल्यत्वेन श्रूयमाणत्वाच्चा
कारप्रत्ययाद्यभावाच्च ‘बीजबिन्दुध्वनीनां च त्रिकूटेषु ग्रहात्मिका’ इत्यादौ ध्वनिपदेनैव
तन्त्रेषु व्यवहाराच्च न वर्णत्वमर्धचन्द्रादेरिति वाच्यम्, अनुस्वारविसर्गादावुक्तहेतु-
सत्त्वेऽपि वर्णत्वस्येष्टत्वात् । कथमन्थथा ‘त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शंभुमते मताः’ इति
प्रतिज्ञाय ‘अनुस्वारो विसर्गश्च—’ इति परिगणनं शिक्षायां सङ्गच्छेत ? न च तादृश-
संख्याविरोधादेव नात्र वर्णत्वम्, तत्र स्पष्टोच्चार्याणामेव गणनात् । न च ताल्वादि-
परिगणितस्थानानभिव्यङ्ग्यत्वात्र वर्णत्वम्, तदनभिव्यङ्ग्यत्वस्य पश्यन्त्यादावव्याप्तेः,
‘चत्वारि वाक्परिमिता पदानि इति श्रुत्या वर्णसमूहात्मकपदत्वस्य स्पष्टमुक्तत्वाच्च । अत
एव चतुःशतीशास्त्रे नादस्यार्थवर्णनं सङ्गच्छते । न च रथघोषवत् पदार्थस्मारकत्वोप-
पत्तिः; तत्र हि तत्कालकरणीयत्वसम्बन्धेन माहेन्द्रस्तोत्रोपाकरणस्य स्मृतिविषयताया
वाचनिकत्वेन रथघोषसामान्यस्य लौकिकादिसाधारणस्य स्मारकत्वाभावेन तस्य तत्र
शक्तेरयोगात्, प्रकृते तु न तथेति वैषम्यात्; ‘हल्लेखात्रयसंभूतैस्तिथिसंख्यैस्तथाक्षरैः’
इत्यादौ प्रतिहल्लेखं हकाररेफेकारानुस्वारनादपञ्चकमिति पञ्चदशाक्षराणीत्युक्त्या, नादे-
ऽक्षरत्वव्यवहारस्यासकृद्योगिनीहृदये,
‘भूमिश्चन्द्रः शिवो माया शक्तिः कृष्णाध्वमादनौ ।
अर्धचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते ।
महात्रिपुरसुन्दर्या मन्त्रा मेरुसमुद्भवाः ॥’
इति ज्ञानार्णवादावप्यसकृद्व्यवहारस्य दर्शनाच्च । ध्वनिपदेन व्यवहारस्तु तत्तुल्य-
त्वाल्लक्षणया ध्वनिपर्यायनादपदवाच्यत्वात्रेयार्थरूपलक्षणया वा नेय इति दिक् । एवं च
प्रथमतृतीयकूटे अष्टादशवर्णात्मके; मध्यमकूटं तु चतुरधिकम्; संहत्याष्टपञ्चाश-
द्वर्णात्मिका विद्येति सिद्धम् । यद्यपि बिन्दुविनिर्मुक्तानामष्टानामेव नादसंज्ञा मन्त्रशास्त्रे,
तथापि व्यवहारसौकर्याय तत्सहितानामेव सात्र कृतेति ध्येयम् ॥ १२-१३ ॥
* सरोजिनी *
हल्लेखायाः = हल्लेखा का । व्योम = ह । अग्नि = र । वाम-लोचना
= ई । ‘बिन्दु’ अर्द्धचन्द्र, रोधिनी, नाद, नादान्त, शक्ति, व्यापिका, समना एवं
उन्मनी—ये नौ अवयव प्रणव, महामन्त्र, मन एवं चक्र के अङ्गभूत हैं ।
आचार्य भास्करराय ‘सेतुबन्ध’ में कहते हैं कि—‘स्वच्छन्दतन्त्र’ में कहा गया
है कि मूलाधार की कर्णिका के मध्य में ‘वह्नि बिम्ब’ है एवं स्वाधिष्ठान की
कर्णिका में ‘हल्लेखा’ का अवस्थान है—‘स्वच्छन्द तन्त्रे मूलाधारे कर्णिकायां
बह्निबिम्बस्य कथनात् स्वाधिष्ठानकर्णिकायां हल्लेखारूप शक्तेरवस्थानम् ॥’
१. वामलोचनमीकारः