सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 110, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 110

८ वरिवस्यारहस्ये
विरलविचित्रपञ्चवाहवाहिनीमहोदधिः, निरतिशय स्वातंत्र्य सीमनि प्रगल्भमानः
सर्वशक्तिखचित एक एव आस्ति संविदात्मामहेश्वरः ।१
प्रकाश एवं विमर्श—शैवशाक्तागम में शिव को प्रकाश एवं शक्ति को विमर्श
की आख्या प्रदान की गई है—उत्पलदेवाचार्यः (सम्बन्धसिद्धि)
१. 'भावभेदादि सम्बन्धमयेन वपुषोन्मिषन् ।
जयत्येकोऽपि विश्वत्मा प्रकाशः परमेश्वरः ।।'२
२. “स एव विमृशत्वेन नियतेन महेश्वरः ।
'विमर्श' एव देवस्य शुद्धे ज्ञानक्रिये यतः ।।'' (प्र०का०१।८८)
३. 'आत्मविमर्शरूपा अनादिनिधना प्रभोः स्वभावभूता ।' (प्र०का०२।२)
४. 'स परमात्मा चिद्रूपो विमर्शाख्येनैव मुख्यस्वभावेन ।' (प्र०का०१।८८)
५. 'स्वभावमवभासस्य विमर्शं विदुरन्यथा ।
प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ।। (प्र०का०१।४२)
६. प्रकाशात्मा प्रकाश्योऽर्थो ना प्रकाशश्च सिद्ध्यति । (प्र०का०१।३४)
७. न च प्रकाशोभिन्नः स्यादात्यार्थस्य प्रकाशताः । (प्र०का०१।३३)
८. प्रकाशास्यात्म विश्रान्तिरहंभावोहि कीर्तितः । (अजड०२२)
९. इदमित्यस्य विच्छिन्न विमर्शस्य कृतार्थता ।
या स्वस्वरूपे विश्रान्ति विमर्शः सोऽहमित्ययम् ।। (अजड०१५)
१०. मुक्त्वान्यस्य प्रकाशस्य विमर्शरहितात्मनः । (अजड०१४)
११. एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी ।
जडाः प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिः ।। (अजड० १३)
१२. इत्थं स संविदघन एक एव शिवः स विश्वस्य परप्रकाशः । (पू०प्रत्य०)
१३. अकारः सर्ववर्णाग्र्यः 'प्रकाशः परमेश्वरः ।३
१४. सकल भुवनोदय स्थिति लय मय लीला विनोदनो द्युक्तः ।
अन्तर्लीन विमर्शः पातु महेशः प्रकाशमात्रतनुः ।।४
१५. परशिवरविकरनिकरे प्रतिफलति विमर्शदर्पणे विशदे ।५
१. ज०म०वि०(भट्ट वामदेवाचार्य)
२. 'स्फुरणान्वयि ज्ञानमेव प्रकाशाभिधं ब्रह्म ।' तस्य चानन्दरूपांश एवस्फुरणां
पराहन्ता विमर्शः पराललिताभट्टारिका त्रिपुरसुन्दरीत्यादिपदैः व्यवह्रियते ।
(वरिवस्यारहस्य—भास्कराचार्य)
३. नान्दिकेश्वर काशिका ४-५. कामकलाविलास (पुण्यानन्दनाथ)